ऋग्वेदसंहिता, पदपाठ · अध्याय 9.63
॥29॥.
-र्व्_7:1।30-
(र्व्_9,63)
आ । पवस्व । सहस्रिणम् । रयिम् । सोम । सु-वीर्यम् । अस्मे इति । श्रवांसि । धारय
इषम् । ऊर्जम् । च । पिन्वसः । इन्द्राय । मत्सरिन्-तमः । चमूषु । आ । नि । सीदसि
सुतः । इन्द्राय । विष्णवे । सोमः । कलशे । अक्षरत् । मधु-मान् । अस्तु । वायवे
एते । असृग्रम् । आशवः । अति । ह्वरांसि । बभ्रवः । सोमाः । ऋतस्य । धारया
इन्द्रम् । वर्धन्तः । अप्-तुरः । कृण्वन्तः । विश्वम् । आर्यम् । अप-घ्नन्तः । अराव्णः
॥30॥.
-र्व्_7:1।31-
सुताः । अनु । स्वम् । आ । रजः । अभि । अर्षन्ति । बभ्रवः । इन्द्रम् । गच्छन्तः । इन्दवः
अया । पवस्व । धारया । यया । सूर्यम् । अरोचयः । हिन्वानः । मानुषीः । अपः
अयुक्त । सूरः । एतशम् । पवमानः । मनौ । अधि । अन्तरिक्षेण । यातवे
उत । त्याः । हरितः । दश । सूरः । अयुक्त । यातवे । इन्दुः । इन्द्रः । इति । ब्रुवन्
परि । इतः । वायवे । सुतम् । गिरः । इन्द्राय । मत्सरम् । अव्यः । वारेषु । सिञ्चत
॥31॥.
-र्व्_7:1।32-
पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । दुस्तरम् । यः । दुः-नशः । वनुष्यता
अभि । अर्ष । सहस्रिणम् । रयिम् । गो-मन्तम् । अश्विनम् । अभि । वाजम् । उत । श्रवः
सोमः । देवः । न । सूर्यः । अद्रि-भिः । पवते । सुतः । दधानः । कलशे । रसम्
एते । धामानि । आर्या । शुक्राः । ऋतस्य । धारया । वाजम् । गो-मन्तम् । अक्षरन्
सुताः । इन्द्राय । वज्रिणे । सोमासः । दधि-आशिरः । पवित्रम् । अति । अक्षरन्
॥32॥.
-र्व्_7:1।33-
प्र । सोम । मधुमत्-तमः । राये । अर्ष । पवित्रे । आ । मदः । यः । देव-वीतमः
तम् । ईम् इति । मृजन्ति । आयवः । हरिम् । नदीषु । वाजिनम् । इन्दुम् । इन्द्राय । मत्सरम्
आ । पवस्व । हिरण्य-वत् । अश्व-वत् । सोम । वीर-वत् । वाजम् । गो-मन्तम् । आ । भर
परि । वाजे । न । वाज-युम् । अव्यः । वारेषु । सिञ्चत । इन्द्राय । मधुमत्-तमम्
कविम् । मृजन्ति । मर्ज्यम् । धीभिः । विप्राः । अवस्यवः । वृषा । कनिक्रत् । अषर्ति
॥33॥.
-र्व्_7:1।34-
वृषणम् । धीभिः । अप्-तुरम् । सोमम् । ऋतस्य । धारया । मती । विप्राः । सम् । अस्वरन्
पवस्व । देव । आयुषक् । इन्द्रम् । गच्छतु । ते । मदः । वायुम् । आ । रोह । धर्मणा
पवमान । नि । तोशसे । रयिम् । सोम । श्रवाय्यम् । प्रियः । समुद्रम् । आ । विश
अप-घ्नन् । पावसे । मृधः । क्रतु-वित् । सोम । मत्सरः । नुदस्व । अदेव-युम् । जनम्
पवमानाः । असृक्षत । सोमाः । शुक्रासः । इन्दवः । अभि । विश्वानि । काव्या
॥34॥.
-र्व्_7:1।35-
पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः । घ्नन्तः । विश्वाः । अप । द्विषः
पवमानाः । दिवः । परि । अन्तरिक्षात् । असृक्षत । पृथिव्याः । अधि । सानवि
पुनानः । सोम । धारया । इन्दो इति । विश्वा । अप । स्रिधः । जहि । रक्षांसि । सुक्रतो इतिसु-क्रतो
अप-घ्नन् । सोम । रक्षसः । अभि । आर्ष । कनिक्रदत् । द्यु-मन्तम् । शुष्मम् । उत्-तमम्
अस्मे इति । वसूनि । धारय । सोम । दिव्यानि । पार्थिवा । इन्दो इति । विश्वानि । वार्या
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0