भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.65

9.65.1

॥41॥.
-र्व्_7:2।1-
(र्व्_9,65)
हिन्वन्ति । सूरम् । उस्रयः । स्वसारः । जामयः । पतिम् । महाम् । इन्दुम् । महीयुवः

9.65.2

पवमान । रुचारुचा । देवः । देवेभ्यः । परि । विश्वा । वसूनि । आ । विश

9.65.3

आ । पवमान । सु-स्तुतिम् । वृष्टिम् । देवेभ्यः । दुवः । इषे । पवस्व । सम्-यतम्

9.65.4

वृषा । हि । असि । भानुना । द्यु-मन्तम् । त्वा । हवामहे । पवमान । सु-आध्यः

9.65.5

आ । पावस्व । सु-वीर्यम् । मन्दमानः । सु-आयुध । इहो इति । सु । इन्दो इति । आ । गहि

9.65.6

॥1॥.
-र्व्_7:2।2-
यत् । अत्-भिः । परि-सिच्यसे । मृज्यमानः । गभस्त्योः । द्रुणा । सध-स्थम् । अश्नुषे

9.65.7

प्र । सोमाय । व्यश्व-वत् । पवमानाय । गायत । महे । सहस्र-चक्षसे

9.65.8

यस्य । वर्णम् । मधु-श्चुतम् । हरिम् । हिन्वन्ति । अद्रि-भिः । इन्दुम् । इन्द्राय । पीतये

9.65.9

तस्य । ते । वाजिनः । वयम् । विश्वा । धनानि । जिग्युषः । सखि-त्वम् । आ । वृणीमहे

9.65.10

वृषा । पवस्व । धारया । मरुत्वते । च । मत्सरः । विश्वा । दधानः । ओजसा

9.65.11

॥2॥.
-र्व्_7:2।3-
तम् । त्वा । धर्तारम् । ओण्योः । पवमान । स्वः-दृशम् । हिन्वे । वाजेषु । वाजिनम्

9.65.12

अया । चित्तः । विपा । अनया । हरिः । पवस्व । धारया । युजम् । वाजेषु । चोदय

9.65.13

आ । नः । इन्दो इति । महीम् । इषम् । पवस्व । विश्व-दर्शतः । अस्मभ्यम् । सोम । गातु-वित्

9.65.14

आ । कलशाः । अनूषत । इन्दो इति । धाराभिः । ओजसा । आ । इन्द्रस्य । पीतये । विश

9.65.15

यस्य । ते । मद्यम् । रसम् । तीव्रम् । दुहन्ति । अद्रि-भिः । सः । पवस्व । अभि । माति-हा

9.65.16

॥3॥.
-र्व्_7:2।4-
राजा । मेधाभिः । ईयते । पवमानः । मनौ । अधि । अन्तरिक्षेण । यातवे

9.65.17

आ । नः । इन्दो इति । शत-ग्विनम् । गवाम् । पोषम् । सु-अश्व्यम् । वह । भगत्तिम् । ऊतये

9.65.18

आ । नः । सोम । सहः । जुवः । रूपम् । न । वर्चसे । भर । सुस्वानः । देव-वीतये

9.65.19

अर्ष । सोम । द्युमत्-तमः । अभि । द्रोणानि । रोरुवत् । सीदन् । श्येनः । न । योनिम् । आ

9.65.20

अप्साः । इन्द्राय । वायवे । वरुणाय । मरुत्-भ्यः । सोमः । अर्षति । विष्णवे

9.65.21

॥4॥.
-र्व्_7:2।5-
इषम् । तोकाय । नः । दधत् । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम्

9.65.22

ये । सोमासः । परावति । ये । अर्वावति । सुन्विरे । ये । वादः । शर्यणावति

9.65.23

ये । आर्जीकेषु । कृत्व-सु । ये । मध्ये । पस्त्यानाम् । ये । वा । जनेषु । पञ्च-सु

9.65.24

ते । नः । वृष्टिम् । दिवः । परि । पवन्ताम् । आ । सु-वीर्यम् । सुवानाः । देवासः । इन्दवः

9.65.25

पवते । हर्यतः । हरिः । गृणानः । जमत्-अग्निना । हिन्वानः । गोः । अधि । त्वचि

9.65.26

॥5॥.
-र्व्_7:2।6-
प्र । शुक्रासः । वयः-जुवः । हिन्वानासः । न । सप्तयः । श्रीणानाः । अप्-सु । मृञ्जत

9.65.27

तम् । त्वा । सुतेषु । आभुवः । हिन्विरे । देव-तातये । सः । पवस्व । अनया । रुचा

9.65.28

आ । ते । दक्षम् । मयः-भुवम् । वह्निम् । अद्य । वृणीमहे । पान्तम् । आ । पुरु-स्पृहम्

9.65.29

आ । मन्द्रम् । आ । वरेण्यम् । आ । विप्रम् । आ । मनीषिणम् । पान्तम् । आ । पुरु-स्पृहम्

9.65.30

आ । रयिम् । आ । सु-चेतुनम् । आ । सुक्रतो इतिसु-क्रतो । तनूषु । आ । पान्तम् । आ । पुरु-स्पृहम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc