ऋग्वेदसंहिता, पदपाठ · अध्याय 8.93
॥20॥.
-र्व्_6:6।21-
(र्व्_8,93)
उत् । घ । इत् । अभि । श्रुत-मघम् । वृषभम् । नर्य-अपसम् । अस्तारम् । एषि । सूयर्
नव । यः । नवतिम् । पुरः । बिभेद । बाहु-ओजसा । अहिम् । च । वृत्र-हा । अवधीत्
सः । नः । इन्द्रः । शिवः । सखा । अश्व-वत् । गो--मत् । यव-मत् । उरुधाराइव । दोहते
यत् । अद्य । कत् । च । वृत्र-हन् । उत्-अगाः । अभि । सूर्य । सर्वम् । तत् । इन्द्र । ते । वशे
यत् । वा । प्र-वृद्ध । सत्-पते । न । मरै । इति । मन्यसे । उतो इति । तत् । सत्यम् । इत् । तव
॥21॥.
-र्व्_6:6।22-
ये । सोमासः । परावति । ये । अर्वावति । सुन्विरे । सर्वान् । तान् । इन्द्र । गच्छसि
तम् । इन्द्रम् । वाजयामसि । महे । वृत्राय । हन्तवे । सः । वृषा । वृषभः । भुवत्
इन्द्रः । सः । दामने । कृतः । ओजिष्ठः । सः । मदे । हितः । द्युम्नी । श्लोकी । सः । सोम्यः
गिरा । वज्रः । न । सम्-भृतः । स-बलः । अनप-च्युतः । ववक्षे । ऋष्वः । अस्तृतः
दुः-गे । चित् । नः । सु-गम् । कृधि । गृणानः । इन्द्र । गिर्वणः । त्वम् । च । मघ-वन् । वशः
॥22॥.
-र्व्_6:6।23-
यस्य । ते । नु । चित् । आदिशम् । न । मिनन्ति । स्व-राज्यम् । न । देवः । न । अध्रि-गुः । जनः
अध । ते । अप्रति-स्कुतम् । देवी इति । शुष्मम् । सपर्यतः । उभे इति । सु-शिप्र । रोदसिइति
त्वम् । एतत् । अधारयः । कृष्णासु । रोहिणीषु । च । परुष्णीषु । रुशत् । पयः
वि । यत् । अहे । अध । त्विषः । विश्वे । देवासः । अक्रमुः । विदत् । मृगस्य । तान् । अमः
आत् । ओं इति । मे । नि-वरः । भुवत् । वृत्र-हा । अदिष्ट । पैंस्यम् । अजात-शत्रुः । अस्तृतः
॥23॥.
-र्व्_6:6।24-
श्रुतम् । वः । वृत्रहन्-तमम् प्र शर्धञ् चर्षणीनाम् । आ शुषेराधसे महे
अया । धिया । च । गव्य-या । पुरु-नामन् । पुरु-स्तुत । यत् । सोमे--सोमे । आ । अभवः
बोधित्-मनाः । इत् । अस्तु । नः । वृत्र-हा । भूरि-आसुतिः । शृणोतु । शुक्रः । आशिषम्
कया । त्वम् । नः । ऊत्या । अभि । प्र । मन्दसे । वृषन् । कया । स्तोतृ-भ्यः । आ । भर
कस्य । वृषा । सुते । सचा । नियुत्वान् । वृषभः । रणत् । वृत्र-हा । सोम-पीतये
॥24॥.
-र्व्_6:6।25-
अभि । सु । नः । त्वम् । रयिम् । मन्दसानः । सहस्रिणम् । प्र-यन्ता । बोधि । दाशुषे
पत्नी-वन्तः । सुताः । इमे । उशन्तः । यन्ति । वीतये । अपाम् । जग्मिः । नि-चुम्पुणः
इष्टाः । होत्राः । असृक्षत । इन्द्रम् । वृधासः । अध्वरे । अच्छ । अव-भृथम् । ओजसा
इह । त्या । सध-माद्या । हरी इति । हिरण्य-केश्या । वोळ्हाम् । अभि । प्रयः । हितम्
तुभ्यम् । सोमाः । सुताः । इमे । स्तीर्णम् । बर्हिः । विभावसो इतिविभावसो । स्तोतृ-भ्यः । इन्द्रम् । आ । वह
॥25॥.
-र्व्_6:6।26-
आ । ते । दक्षम् । वि । रोचना । दधत् । रत्ना । वि । दाशुषे । स्तोतृ-भ्यः । इन्द्रम् । अर्चत
आ । ते । दधामि । इन्द्रियम् । उक्था । विश्वा । शतक्रतो इतिशत-क्रतो । स्तोतृ-भ्यः । इन्द्र । मृळय
भद्रम्-भद्रम् । नः । आ । भर । इषम् । ऊर्जम् । शतक्रतो इतिशत-क्रतो । यत् । इन्द्र । मृळयासि । नः
सः । नः । विश्वानि । आ । भर । सुवितानि । शतक्रतो इतिशत-क्रतो । यत् । इन्द्र । मृळयासि । नः
त्वाम् । इत् । वृत्रहन्-तम । सुत-वन्तः । हवामहे । यत् । इन्द्र । मृळयासि । नः
॥26॥.
-र्व्_6:6।27-
उप । नः । हरि-भिः । सुतम् । याहि । मदानाम् । पते । उप । नः । हरि-भिः । सुतम्
द्विता । यः । वृत्रहन्-तमः । विदे । इन्द्रः । शत-क्रतुः । उप । नः । हरि-भिः । सुतम्
त्वम् । हि । वृत्र-हन् । एषाम् । पाता । सोमानाम् । असि । उप । नः । हरि-भिः । सुतम्
इन्द्रः । इषे । ददातु । नः । ऋभुक्षणम् । ऋभुम् । रयिम् । वाजी । ददातु । वाजिनम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0