ऋग्वेदसंहिता, पदपाठ · अध्याय 8.92
॥14॥.
-र्व्_6:6।15-
(र्व्_8,92)
पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्व-सहम् । शत-क्रतुम् । मंहिष्ठम् । चर्षणीनाम्
पुरु-हूतम् । पुरु-स्तुतम् । गाथान्यम् । सन-श्रुतम् । इन्द्रः । इति । ब्रवीतन
इन्द्रः । इत् । नः । महानाम् । दता । वाजानाम् । नृतुः । महान् । अभि-ज्ञु । आ । यमत्
अपात् । ओं
इति । शिप्री । अन्धसः । सु-दक्षस्य । प्र-होषिणः । इन्दोः । इन्द्रः । यव-आशिरः
तम् । ओं इति । अभि । प्र । अर्चत । इन्द्रम् । सोमस्य । पीतये । तत् । इत् । हि । अस्य । वर्धनम्
॥15॥.
-र्व्_6:6।16-
अस्य । पीत्वा । मदानाम् । देवः । देवस्य । ओजसा । विश्वा । अभि । भुवना । भुवत्
त्यम् । ओं इति । वः । सत्रासहम् । विश्वासु । गीर्षु । आयतम् । आ । च्यवयसि । ऊतये
युध्मम् । सन्तम् । अनर्वाणम् । सोम-पाम् । अनप-च्युतम् । नरम् । अवार्य-क्रतुम्
शिक्ष । नः । इन्द्र । रायः । आ । पुरु । विद्वान् । ऋचीषम । अव । नः । पार्ये । धने
अतः । चित् । इन्द्र । नः । उप । आ । याहि । शत-वाजया । इषा । सहस्र-वाजया
॥16॥.
-र्व्_6:6।17-
अयाम । धी-वतः । धियः । अर्वत्-भिः । शक्र । गो--दरे । जयेम । पृत्-सु । वज्र् इ-वः
वयम् । ओं इति । त्वा । शतक्रतो इतिशत-क्रतो । गावः । न । यवसेषु । आ । उक्थेषु । रणयामसि
विश्वा । हि । मर्त्य-त्वना । अनु-कामा । शतक्रतो इतिशत-क्रतो । अगन्म । वज्रिन् । आशसः
त्वे इति । सु । पुत्र । शवसः । अवृत्रन् । काम-कातयः । न । त्वाम् । इन्द्र । अति । रिच्यते
सः । नः । वृषन् । सनिष्ठया । सम् । घोरया । द्रवित्न्वा । धिया । अविड्ढि । पुरम्-ध्या
॥17॥.
-र्व्_6:6।18-
यः । ते । नूनम् । शतक्रतो इतिशत-क्रतो । इन्द्र । द्युम्नि-तमः । मदः । तेन । नूनम् । मदे । मदेः
यः । ते । चित्रश्रवः-तमः । यः । इन्द्र । वृत्रहन्-तमः । यः । ओजः-दातमः । मदः
विद्म । हि । यः । ते । अद्रि-वः । त्वादत्तः । सत्य । सोम-पाः । विश्वासु । दस्म । कृष्टिषु
इन्द्राय । मद्वने । सुतम् । परि । स्तोभन्तु । नः । गिरः । अर्कम् । अर्चन्तु । कारवः
यस्मिन् । विश्वाः । अधि । श्रियः । रणन्ति । सप्त । सम्-सदः । इन्द्रम् । सुते । हवामहे
॥18॥.
-र्व्_6:6।19-
त्रि-कद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत । तम् । इत् । वर्धन्तु । नः । गिरः
आ । त्वा । विशन्तु । इन्दवः । समुद्रम्-इव । सिन्धवः । न । त्वाम् । इन्द्र । अति । रिच्यते
विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे । यः । इन्द्र । जठरेषु । ते
अरम् । ते । इन्द्र । कुक्षये । सोमः । भवतु । वृत्र-हन् । अरम् । धाम-भ्यः । इन्दवः
अरम् । अश्वाय । गायति । श्रुत-कक्षः । अरम् । गवे । अरम् । इन्द्रस्य । धाम्ने
अरम् । हि । स्म । सुतेषु । नः । सोमेषु । इन्द्र । भूषसि । अरम् । ते । शक्र । दावने
॥19॥.
-र्व्_6:6।20-
पराकात्तात् । चित् । अद्रि-वः । त्वाम् । नक्षन्त । नः । गिरः । अरम् । गमाम । ते । वयम्
एव । हि । असि । वीर-युः । एव । शूरः । उत । स्थिरः । एव । ते । राध्यम् । मनः
एव । रातिः । तुवि-मघ । विश्वेभिः । धायि । धातृ-भिः । अध । चित् । इन्द्र । मे । सचा
मो इति । सु । ब्रह्माइव । तन्द्रयुः । भुवः । वाजानाम् । पते । मत्स्व । सुतस्य । गो--मतः
मा । नः । इन्द्र । अभि । आदिशः । सूरः । अक्तुषु । आ । यमन् । त्वा । युजा । वनेम । तत्
त्वया । इत् । इन्द्र । युजा । वयम् । प्रति । ब्रुवीमहि । स्पृधः । त्वम् । अस्माकम् । तव । स्मसि
त्वाम् । इत् । हि । त्वायवः । अनु-नोनुवतः । चरान् । सखायः । इन्द्र । कारवः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0