ऋग्वेदसंहिता, पदपाठ · अध्याय 8.94
॥27॥.
-र्व्_6:6।28-
(र्व्_8,94)
गौः । धयति । मरुताम् । श्रवस्युः । मता । मघोनाम् । युक्ता । वह्निः । रथानाम्
यस्याः । देवाः । उप-स्थे । व्रता । विश्वे । धारयन्ते । सूर्यामासा । दृशे । कम्
तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः । मरुतः । सोम-पीतये
अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः । उत । स्व-राजः । अश्विना
पिबन्ति । मित्रः । अर्यमा । तना । पूतस्य । वरुणः । त्रि-सधस्थस्य । जावतः
उतो इति । नु । अस्य । जोषम् । आ । इन्द्रः । सुतस्य । गो--मतः । प्रातः । होताइव । मत्सति
॥28॥.
-र्व्_6:6।29-
कत् । अत्विषन्त । सूरयः । तिरः । आपः-इव । स्रिधः । अर्षन्ति । पूत-दक्षसः
कत् । वः । अद्य । महानाम् । देवानाम् । अवः । वृणे । त्मना । च । दस्म-वर्चसाम्
आ । ये । विश्वा । पार्थिवानि । पप्रथन् । रोचना । दिवः । मरुतः । सोम-पीतये
त्यान् । नु । पूत-दक्षसः । दिवः । वः । मरुतः । हुवे । अस्य । सोमस्य । पीतये
त्यान् । नु । ये । वि । रोदसी इति । तस्तभुः । मरुतः । हुवे । अस्य । सोमस्य । पीतये
त्यम् । नु । मारुतम् । गणम् । गिरि-स्थाम् । वृषणम् । हुवे । अस्य । सोमस्य । पीतये
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0