भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.5

8.5.1

॥33॥.
-र्व्_5:8।1-
(र्व्_8,5)
दूरात् । इह-इव । यत् । सती । अरुण-प्शुः । अशिश्वितत् । वि । भानुम् । विश्वधा । अतनत्

8.5.2

नृ-वत् । दस्रा । मनः-युजा । रथेन । पृथु-पाजसा । सचेथेइति । अश्विना । उषसम्

8.5.3

युवाभ्याम् । वाजिनीवसूइतिवाजिनी-वसू । प्रति । स्तोमाः । अदृक्षत । वाचम् । दूतः । यथा । ओहिषे

8.5.4

पुरु-प्रिया । नः । ऊतये । पुरु-मन्द्रा । पुरुवसूइतिपुरु-वसू । स्तुषे । कण्वासः । अश्विना

8.5.5

मंहिष्ठा । वाज-सातमा । इषयन्ता । शुभः । पती इति । गन्तारा । दाशुषः । गृहम्

8.5.6

॥1॥.
-र्व्_5:8।2-
ता । सु-देवाय । दाशुषे । सु-मेधाम् । अवि-तारिणीम् । घृतैः । गव्यूतिम् । उक्षतम्

8.5.7

आ । नः । स्तोमम् । उप । द्रवत् । तूयम् । श्येनेभिः । आशु-भिः । यातम् । अश्वेभिः । अश्व् इना

8.5.8

येभिः । तिस्रः । परावतः । दिवः । विश्वानि । रोचना । त्रीन् । अक्तून् । परि-दीयथः

8.5.9

उत । नः । गो--मतीः । इषः । उत । सातीः । अहः-विदा । वि । पथः । सातये । सितम्

8.5.10

आ । नः । गो--मन्तम् । अश्विना । सु-वीरम् । सु-रथम् । रयिम् । वोळ्हम् । अश्व-वतीः । इषः

8.5.11

॥2॥.
-र्व्_5:8।3-
वावृधाना । शुभः । पती इति । दस्रा । हिरण्य-वर्तनी इतिहिरण्य-वर्तनी । पिबतम् । सोम्यम् । मधु

8.5.12

अस्मभ्यम् । वाजिनीवसूइतिवाजिनी-वसू । मघवत्-भ्यः । च । स-प्रथः । छर्दिः । यन्तम् । अदाभ्यम्

8.5.13

नि । सु । ब्रह्म । जनानाम् । या । अविष्टम् । तूयम् । आ । गतम् । मो इति । सु । अन्यान् । उप । अरतम्

8.5.14

अस्य । पिबतम् । अश्विना । युवम् । मदस्य । चारुणः । मध्वः । रातस्य । धिष्ण्या

8.5.15

अस्मे इति । आ । वहतम् । रयिम् । शत-वन्तम् । सहस्रिणम् । पुरु-क्षुम् । विश्व-धायसम्

8.5.16

॥3॥.
-र्व्_5:8।4-
पुरु-त्रा । चित् । हि । वाम् । नरा । वि-ह्वयन्ते । मनीषिणः । वाघत्-भिः । अश्विना । आ । गतम्

8.5.17

जनासः । वृक्त-बर्हिषः । हविष्मन्तः । अरम्-कृतः । युवाम् । हवन्ते । अश्विना

8.5.18

अस्माकम् । अद्य । वाम् । अयम् । स्तोमः । वाहिष्ठः । अन्तमः । युवाभ्याम् । भूतु । अश्वि ना

8.5.19

यः । ह । वाम् । मधुनः । दृतिः । आहितः । रथ-चर्षणे । ततः । पिबतम् । अश्विना

8.5.20

तेन । नः । वाजिनीवसूइतिवाजिनी-वसू । पश्वे । तोकाय । शम् । गवे । वहतम् । पीवरीः । इषः

8.5.21

॥4॥.
-र्व्_5:8।5-
उत । नः । दिव्याः । इषः । उत । सिन्धून् । अहः-विदा । अप । द्वाराइव । वषर्थः

8.5.22

कदा । वाम् । तौग्र्यः । विधत् । समुद्रे । जहितः । नरा । यत् । वाम् । रथः । वि-भिः । पतात्

8.5.23

युवम् । कण्वाय । नासत्या । अपि-रिप्ताय । हर्म्ये । शश्वत् । ऊतीः । दशस्यथः

8.5.24

ताभिः । आ । यातम् । ऊति-भिः । नव्यसीभिः । सुशस्ति-भिः । यत् । वाम् । वृषण्वसूइतिवृषण्-वसू । हुवे

8.5.25

यथा । चित् । कण्वम् । आवतम् । प्रिय-मेधम् । उप-स्तुतम् । अत्रिम् । शिञ्जारम् । अश्विना

8.5.26

॥5॥.
-र्व्_5:8।6-
यथा । उत । कृत्व्ये । धने । अंशुम् । गोषु । अगस्त्यम् । यथा । वाजेषु । सोभरिम्

8.5.27

एतावत् । वाम् । वृषण्वसूइतिवृषण्-वसू । अतः । वा । भूयः । अश्विना । गृणन्तः । सुम्नम् । ईमहे

8.5.28

रथम् । हिरण्य-वन्धुरम् । हिरण्य-अभीशुम् । अश्विना । आ । हि । स्थाथः । दिवि-स्पृशम्

8.5.29

हिरण्ययीम् । वाम् । रभिः । ईषा । अक्षः । हिरण्ययः । उभा । चक्रा । हिरण्यया

8.5.30

तेन । नः । वाजिनीवसूइतिवाजिनी-वसू । परावतः । चित् । आ । गतम् । उप । इमाम् । सु-स्तुतिम् । मम

8.5.31

॥6॥.
-र्व्_5:8।7-
आ । वहेथेइति । पराकात् । पूर्वीः । अश्नन्तौ । अश्विना । इषः । दासीः । अमर्त्या

8.5.32

आ । नः । द्युमैः । आ । श्रवः-भिः । आ । राया । यातम् । अश्विना । पुरु-चन्द्रा । नासत्या

8.5.33

आ । इह । वाम् । प्रुषित-प्सवः । वयः । वहन्तु । पर्णिनः । अच्छ । सु-अध्वरम् । जनम्

8.5.34

रथम् । वाम् । अनु-गायसम् । य । इषा । वर्तते । सह । न । चक्रम् । अभि । बाधते

8.5.35

हिरण्ययेन । रथेन । द्रवत्पाणि-भिः । अश्वैः । धी-जवना । नासत्या

8.5.36

॥7॥.
-र्व्_5:8।8-
युवम् । मृगम् । जागृ-वांसम् । स्वदथः । वा । वृषण्वसूइतिवृषण्-वसू । ता । नः । पृङ्क्तम् । इषा । रयिम्

8.5.37

ता । मे । अश्विना । सनीनाम् । विध्यातम् । नवानाम् । यथा । चित् । चैद्यः । कशुम् । शतम् । उष्ट्रानाम् । ददत् । सहस्रा । दश । गोनाम्

8.5.38

यः । मे । हिरण्य-सन्दृशः । दश । राज्ञः । अमंहत । अधः-पदाः । इत् । चैद्यस्य । कृष्टयः । चर्म-म्नाः । अभितः । जनाः

8.5.39

माकिः । एना । पथा । गाद्येन । इमे । यन्ति । चेदयः । अन्यः । न । इत् । सूरिः । ओहते । भूर्दावत्-तरः । जनः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc