भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.4

8.4.1

॥29॥.
-र्व्_5:7।30-
(र्व्_8,4)
यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृ-भिः । सिम । पुरु । नृ-सूतः । असि । आनवे । असि । प्र-शर्ध । तुर्वशे

8.4.2

यत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा । कण्वासः । त्वा । ब्रह्म-भिः । स्तोम-वाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि

8.4.3

यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आपित्वे । नः । प्र-पित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा । पिब

8.4.4

मन्दन्तु । त्वा । मघ-वन् । इन्द्र । इन्दवः । राधः-दयाय । सुन्वते । आमुष्य । सोमम् । अपिबः । चमू इति । सुतम् । ज्येष्ठम् । तत् । दधिषे । सहः

8.4.5

प्र । चक्रे । सहसा । सहः । बभञ्ज । मन्युम् । ओजसा । विश्वे । ते । इन्द्र । पृतनायवः । यहो इति । नि । वृक्षाः-इव । येमिरे

8.4.6

॥30॥.
-र्व्_5:7।31-
सहस्रेण-इव । सचते । यवि-युधा । यः । ते । आनट् । उप-स्तुतिम् । पुत्रम् । प्रावर्गम् । कृणुते । सु-वीर्ये । दाश्नोति । नम-उक्ति-भिः

8.4.7

मा । भेम । मा । श्रमिष्म । उग्रस्य । सख्ये । तव । महत् । ते । वृष्णः । अभि-चक्ष्यम् । कृतम् । पश्येम । तुर्वशम् । यदुम्

8.4.8

सव्याम् । अनु । स्फिग्यम् । ववसे । वृषा । न । दानः । अस्य । रोषति । मध्वा । सम्-पृक्ताः । सारघेण । धेनवः । तूयम् । आ । इहि । द्रव । पिब

8.4.9

अश्वी । रथी । सु-रूपः । इत् । गो--मान् । इत् । इन्द्र । ते । सखा । श्वात्र-भाजा । वयसा । सचते । सदा । चन्द्रः । याति । सभाम् । उप

8.4.10

ऋश्यः । न । तृष्यन् । अव-पानम् । आ । गहि । पिब । सोमम् । वशान् । अनु । नि-मेघमानः । मघ-वन् । दिवे--दिवे । ओजिष्ठम् । दधिषे । सहः

8.4.11

॥31॥.
-र्व्_5:7।32-
अध्वर्यो इति । द्रावय । त्वम् । सोमम् । इन्द्रः । पिपासति । उप । नूनम् । युयुजे । वृषणा । हरी इति । आ । च । जगाम । वृत्र-हा

8.4.12

स्वयम् । चित् । सः । मन्यते । दाशुरिः । जनः । यत्र । सोमस्य । तृम्पसि । इदम् । ते । अन्नम् । युज्यम् । सम्-उक्षितम् । तस्य । इहि । प्र । द्रव । पिब

8.4.13

रथेष्ठाय । अध्वर्यवः । सोमम् । इन्द्राय । सोतन । अधि । ब्रध्नस्य । अद्रयः । वि । चक्षते । सुन्वन्तः । दाशु-अध्वरम्

8.4.14

उप । ब्रध्नम् । ववाता । वृषणा । हरी इति । इन्द्रम् । अप-सु । वक्षतः । अर्वाञ्चम् । त्वा । सप्तयः । अध्वर-श्रियः । वहन्तु । सवना । इत् । उप

8.4.15

प्र । पूषणम् । वृणीमहे । युज्याय । पुरु-वसुम् । सः । शक्र । शिक्ष । पुरु-हूत । नः । धिया । तुजे । राये । वि-मोचन

8.4.16

॥32॥.
-र्व्_5:7।33-
सम् । नः । शिशीहि । भुरिजोः-इव । क्षुरम् । रास्व । रायः । वि-मोचन । त्वे इति । तत् । नः । सु-वेदम् । उस्रियम् । वसु । यम् । त्वम् । हिनोषि । मर्त्यम्

8.4.17

वेमि । त्वा । पूषन् । ऋञ्जसे । वेमि । स्तोतवे । आघृणे । न । तस्य । वेमि । अरणम् । हि । तत् । वसो इति । स्तुषे । पज्राय । साम्ने

8.4.18

परा । गावः । यवसम् । कत् । चित् । आघृणे । नित्यम् । रेक्णः । अमर्त्य । अस्माकम् । पूषन् । अविता । शिवः । भव । मंहिष्ठः । वाज-सातये

8.4.19

स्थूरम् । राधः । शत-अश्वम् । कुरुङ्गस्य । दिविष्टिषु । राज्ञः । त्वेषस्य । सु-भगस्य । रातिषु । तुर्वशेषु । अमन्महि

8.4.20

धीभिः । सातानि । काण्वस्य । वाजिनः । प्रिय-मेधैः । अभिद्यु-भिः । षष्टिम् । सहस्रा । अनु । निः-मजाम् । अजे । निः । यूथानि । गवाम् । ऋषिः

8.4.21

वृक्षाः । चित् । मे । अभि-पित्वे । अररणुः । गाम् । भजन्त । मेहना । अश्वम् । भजन्त । मेहना

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc