ऋग्वेदसंहिता, पदपाठ · अध्याय 8.6
॥8॥.
-र्व्_5:8।9-
(र्व्_8,6)
महान् । इन्द्रः । यः । ओजसा । पर्जन्यः । वृष्टिमान्-इव । स्तोमैः । वत्सस्य । ववृधे
प्र-जाम् । ऋतस्य । पिप्रतः । प्र । यत् । भरन्त । वह्नयः । विप्राः । ऋतस्य । वाहसा
कण्वाः । इन्द्रम् । यत् । अक्रत । स्तोमैः । यज्ञस्य । साधनम् । जामि । ब्रुवते । आयुधम्
सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय-इव । सिन्धवः
ओजः । तत् । अस्य । तित्विषे । उभे इति । यत् । सम्-अवर्तयत् । इन्द्रः । चर्म-इव । रोदसी इति
॥9॥.
-र्व्_5:8।10-
वि । चित् । वृत्रस्य । दोधतः । वज्रेण । शत-पर्वणा । शिरः । बिभेद । वृष्णिना
इमाः । अभि । प्र । नोनुमः । विपाम् । अग्रेषु । धीतयः । अग्नेः । शोचिः । न । दिद्युतः
गुहा । सतीः । उप । त्मना । प्र । यत् । शोचन्त । धीतयः । कण्वाः । ऋतस्य । धारया
प्र । तम् । इन्द्र । नशीमहि । रयिम् । गो--मन्तम् । अश्विनम् । प्र । ब्रह्म । पूर्व-चित्तये
अहम् । इत् । हि । पितुः । परि । मेधाम् । ऋतस्य । जग्रभ । अहम् । सूर्यः-इव । अजनि
॥10॥.
-र्व्_5:8।11-
अहम् । प्रत्नेन । मन्मना । गिरः । शुम्भामि । कण्व-वत् । येन । इन्द्रः । शुष्मम् । इत् । दधे
ये । त्वाम् । इन्द्र । न । तुस्तुवुः । ऋषयः । ये । च । तुस्तुवुः । मम । इत् । वर्धस्व । सु-स्तुतः
यत् । अस्य । मन्युः । अध्वनीत् । वि । वृत्रम् । पर्व-शः । रुजन् । अपः । समुद्रम् । ऐरयत्
नि । शुष्णे । इन्द्र । धर्णसिम् । वज्रम् । जघन्थ । दस्यवि । वृषा । हि । उग्र । शृण्वि षे
न । द्यावः । इन्द्रम् । ओजसा । न । अन्तरिक्षाणि । वज्रिणम् । न । विव्यचन्त । भूमयः
॥11॥.
-र्व्_5:8।12-
यः । ते । इन्द्र । महीः । अपः । स्तभु-यमानः । आ । अशयत् । नि । तम् । पद्यासु । शिश्नथः
यः । इमे इति । रोदसी इति । मही इति । समीची इतिसम्-ईची । सम्-अजग्रभीत् । तमः-भिः । इन्द्र । तम् । गुहः
ये । इन्द्र । यतयः । त्वा । भृगवः । ये । च । तुस्तुवुः । मम । इत् । उग्र । स्रुधि । हवम्
इमाः । ते । इन्द्र । पृश्नयः । घृतम् । दुहते । आशिरम् । एनाम् । ऋतस्य । पिप्युषीः
याः । इन्द्र । प्र-स्वः । त्वा । आसा । गर्भम् । अचक्रिरन् । परि । धर्म-इव । सूर्यम्
॥12॥.
-र्व्_5:8।13-
त्वाम् । इत् । शवसः । पते । कण्वाः । उक्थेन । ववृधुः । त्वाम् । सुतासः । इन्दवः
तव । इत् । इन्द्र । प्र-नीतिषु । उत । प्र-शस्तिः । अद्रि-वः । यज्ञः । वितन्तसाय्यः
आ । नः । इन्द्र । महीम् । इषम् । पुरम् । न । दर्षि । गो--मतीम् । उत । प्र-जाम् । सु-वीर्यम्
उत । त्यत् । आशु-अश्व्यम् । यत् । इन्द्र । नाहुषीषु । आ । अग्रे । विक्षु । प्र-दीदयत्
अभि । व्रजम् । न । तत्निषे । सूरः । उपाक-चक्षसम् । यत् । इन्द्र । मृळयासि । नः
॥13॥.
-र्व्_5:8।14-
यत् । अङ्ग । तविषी-यसे । इन्द्र । प्र-राजसि । क्षितीः । महान् । अपारः । ओजसा
तम् । त्वा । हविष्मतीः । विशः । उप । ब्रुवते । ऊतये । उरु-ज्रयसम् । इन्दु-भि ः
उप-ह्वरे । गिरीणाम् । सम्-गथे । च । नदीनाम् । धिया । विप्रः । अजायत
अतः । समुद्रम् । उत्-वतः । चिकित्वान् । अव । पश्यति । यतः । विपानः । एजति
आत् । इत् । प्रत्नस्य । रेतसः । ज्योतिः । पश्यन्ति । वासरम् । परः । यत् । इध्यते । दिवा
॥14॥.
-र्व्_5:8।15-
कण्वासः । इन्द्र । ते । मतिम् । विश्वे । वर्धन्ति । पैंस्यम् । उतो इति । शविष्ठ । वृष्ण्यम्
इमाम् । मे । इन्द्र । सु-स्तुतिम् । जुषस्व । प्र । सु । माम् । अव । उत । प्र । वर्धय । मतिम्
उत । ब्रह्मण्या । वयम् । तुभ्यम् । प्र-वृद्ध । वज्रि-वः । विप्राः । अतक्ष्म । जीवसे
अभि । कण्वाः । अनूषत । आपः । न । प्र-वता । यतीः । इन्द्रम् । वनन्-वती । मतिः
इन्द्रम् । उक्थानि । ववृधुः । समुद्रम्-इव । सिन्धवः । अनुत्त-मन्युम् । अजरम्
॥15॥.
-र्व्_5:8।16-
आ । नः । याहि । परावतः । हरि-भ्याम् । हर्यताभ्याम् । इमम् । इन्द्र । सुतम् । पिब
त्वाम् । इत् । वृत्रहन्-तम । जनासः । वृक्त-बर्हिषः । हवन्ते । वाज-सातये
अनु । त्वा । रोदसी इति । उभे इति । चक्रम् । न । वर्ति । एतशम् । अनु । सुवानासः । इन्दवः
मन्दस्व । सु । स्वः-नरे । उत । इन्द्र । शर्यणावति । मत्स्व । विवस्वतः । मती
ववृधानः । उप । द्यवि । वृषा । वज्री । अरोरवीत् । वृत्र-हा । सोम-पातमः
॥16॥.
-र्व्_5:8।17-
ऋषिः । हि । पूर्व-जाः । असि । एकः । ईशानः । ओजसा । इन्द्र । चोष्कूयसे । वसु
अस्माकम् । त्वा । सुतान् । उप । वीत-पृष्ठाः । अभि । प्रयः । शतम् । वहन्तु । हरयः
इमाम् । सु । पूर्व्याम् । धियम् । मधोः । घृतस्य । पिप्युषीम् । कण्वाः । उक्थेन । ववृधुः
इन्द्रम् । इत् । वि-महीनाम् । मेधे । वृणीत । मर्त्यः । इन्द्रम् । सनिष्युः । ऊतये
अर्वाञ्चम् । त्वा । पुरु-स्तुत । प्रियमेध-स्तुता । हरी । सोम-पेयाय । वक्षतः
शतम् । अहम् । तिरिन्दिरे । सहस्रम् । पर्शौ । आ । ददे । राधांसि । याद्वानाम्
त्रीणि । शतानि । अर्वताम् । सहस्रा । दश । गोनाम् । ददुः । पज्राय । साम्ने
उत् । आनट् । ककुहः । दिवम् । उष्ट्रान् । चतुः-युजः । ददत् । श्रवसा । याद्वम् । जनम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0