ऋग्वेदसंहिता, पदपाठ · अध्याय 8.46
॥49॥.
-र्व्_6:4।1-
(र्व्_8,46)
त्वावतः । पुरुवसो इतिपुरु-वसो । वयम् । इन्द्र । प्रनेतरितिप्र-नेतः । स्मसि । स्थातः । हरीणाम्
त्वाम् । हि । सत्यम् । अद्रि-वः । विद्म । दातारम् । इषाम् । विद्म । दातारम् । रयीणाम्
आ । यस्य । ते । महिमानम् । शतम्-ऊते । शतक्रतो इतिशत-क्रतो । गीः-भिः । गृणन्ति । कारवः
सु-नीथः । घ । सः । मर्त्यः । यम् । मरुतः । यम् । अर्यमा । मित्रः । पान्ति । अद्रुहः
दधानः । गो--मत् । अश्व-वत् । सु-वीर्यम् । आदित्य-जूतः । एधते । सदा । राया । पुरु-स्पृहा
॥1॥.
-र्व्_6:4।2-
तम् । इन्द्रम् । दानम् । ईमहे । शवसानम् । अभीर्वम् । ईशानम् । रायः । ईमहे
तस्मिन् । हि । सन्ति । ऊतयः । विश्वाः । अभीरवः । सचा । तम् । आ । वहन्तु । सप्तयः । पुरु-वसुम् । मदाय । हरयः । सुतम्
यः । ते । मदः । वरेण्यः । यः । इन्द्र । वृत्रहन्-तमः । यः । आददिः । स्वः । नृ-भिः । यः । पृतनासु । दुस्तरः
यः । दुस्तरः । विश्व-वार । श्रवाय्यः । वाजेषु । अस्ति । तरुता । सः । नः । शविष्ठ । सवना । आ । वसो इति । गहि । गमेम । गो--मति । व्रजे
गव्यः । सु । णः । यथा । पुरा । अश्व-या । उत । रथ-या । वरिवस्य । महामह
॥2॥.
-र्व्_6:4।3-
नहि । ते । शूर । राधसः । अन्तम् । विन्दामि । सत्रा । दशस्य । नः । मघ-वन् । नु । चित् । अद्रि-वः । धियः । वाजेभिः । आविथ
यः । ऋष्वः । श्रवयत्-सखा । विश्वा । इत् । सः । वेद । जनिम । पुरु-स्तुतः । तम् । विश्वे । मानुषा । युगा । इन्द्रम् । हवन्ते । तविषम् । यत-स्रुचः
सः । नः । वाजेषु । अविता । पुरु-वसुः । पुरः-स्थाता । मघ-वा । वृत्र-हा । भुवत्
अभि । वः । वीरम् । अन्धसः । मदेषु । गाय । गिरा । महा । वि-चेतसम् । इन्द्रम् । नाम । श्रुत्यम् । शाकिनम् । वचः । यथा
ददिः । रेक्णः । तन्वे । ददिः । वसु । ददिः । वाजेषु । पुरु-हूत । वाजिनम् । नूनम् । अथ
॥3॥.
-र्व्_6:4।4-
विश्वेषाम् । इरज्यन्तम् । वसूनाम् । ससह्वांसम् । चित् । अस्य । वर्पसः । कृप-यतः । नूनम् । अति । अथ
महः । सु । वः । अरम् । इषे । स्तवामहे । मीळ्हुषे । अरम्-गमाय । जग्मये । यज्ञेभिः । गीः-भिः । विश्व-मनुषाम् । मरुताम् । इयक्षसि । गाये । त्वा । नमसा । गि रा
ये । पातयन्ते । अज्म-भिः । गिरीणाम् । स्नु-भिः । एषाम् । यज्ञम् । महि-स्वणीनाम् । सुम्नम् । तुवि-स्वणीनाम् । प्र । अध्वरे
प्र-भङ्गम् । दुः-मतीनाम् । इन्द्र । शविष्ठ । आ । भर । रयिम् । अस्मभ्यम् । युज्यम् । चोदयत्-मते । ज्येष्ठम् । चोदयत्-मते
सनितरिति । । सु-सनितः । उग्र । चित्र । चेतिष्ठ । सूनृत । प्र-सहा । सम्-राट् । सहुरिम् । सहन्तम् । भुज्युम् । वाजेषु । पूर्व्यम्
॥4॥.
-र्व्_6:4।5-
आ । सः । एतु । यः । ईवत् । आ । अदेवः । पूर्तम् । आददे । यथा । चित् । वशः । अश्व्यः । पृथु-श्रवसि । कानीते । अस्याः । वि-उषि । आददे
षष्टिम् । सहस्रा । अश्व्यस्य । अयुता । असनम् । उष्ट्रानाम् । विंशतिम् । शता । दश । श्यावीनाम् । शता । दश । त्रि-अरुषीणाम् । दश । गवाम् । सहस्रा
दश । श्यावाः । ऋधत्-रयः । वीत-वारासः । आशवः । मथ्राः । नेमिम् । नि । ववृतुः
दानासः । पृथु-श्रवसः । कानीतस्य । सु-राधसः । रथम् । हिरण्ययम् । ददत् । मंहिष्ठः । सूरिः । अभूत् । वर्षिष्ठम् । अकृत । श्रवः
आ । नः । वायो इति । महे । तने । याहि । मखाय । पाजसे । वयम् । हि । ते । चकृम । भूरि । दावने । सद्यः । चित् । महि । दावने
॥5॥.
-र्व्_6:4।6-
यः । अश्वेभिः । वहते । वस्ते । उस्राः । त्रिः । सप्त । सप्ततीनाम् । एभिः । सोमेभिः । सोमसुत्-भिः । सोम-पाः । दानाय । शुक्रपूत-पाः
यः । मे । इमम् । चित् । ओं इति । त्मना । अमन्दत् । चित्रम् । दावने । अरटवे । अक्षे । नहुषे । सु-कृत्वनि । सुकृत्-तराय । सु-क्रतुः
उचथ्ये । वपुषि । यः । स्व-राट् । उत । वायो
इति । घृत-स्नाः । अश्व-इषितम् । रजः-इषितम् । शुनाइषितम् । प्र । अज्म । तत् । इदम् । नु । तत्
अघ । प्रियम् । इषिराय । षष्टिम् । सहस्रा । असनम् । अश्वानाम् । इत् । न । वृष्णाम्
गावः । न । यूथम् । उप । यन्ति । वध्रयः । उप । मा । यन्ति । वध्रयः
अध । यत् । चारथे । गणे । शतम् । उष्ट्रान् । अचिक्रदत् । अध । श्वित्नेषु । विंशतिम् । शता
शतम् । दासे । बल्बूथे । विप्रः । तरुक्षे । आ । ददे । ते । ते । वायो इति । इमे । जनाः । मदन्ति । इन्द्र-गोपाः । मदन्ति । देव-गोपाः
अध । स्या । योषणा । मही । प्रतीची । वशम् । अश्व्यम् । अधि-रुक्मा । वि । नीयते
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0