भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.45

8.45.1

॥41॥.
-र्व्_6:3।42-
(र्व्_8,45)
आ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । आनुषक् । येषाम् । इन्द्रः । युवा । सखा

8.45.2

बृहन् । इत् । इध्मः । एषाम् । भूरि । शस्तम् । पृथु । स्वरुः । येषाम् । इन्द्रः । युवा । सखा

8.45.3

अयुद्धः । इत् । युधा । वृतम् । शूरः । आ । अजति । सत्व-भिः । येषाम् । इन्द्रः । युवा । सखा

8.45.4

आ । बुन्दम् । वृत्र-हा । ददे । जातः । पृच्छत् । वि । मातरम् । के । उग्राः । के । ह । शृण्विरे

8.45.5

प्रति । त्वा । शवसी । वदत् । घिरौ । अप्सः । न । योधिषत् । यः । ते । शत्रु-त्वम् । आचके

8.45.6

॥42॥.
-र्व्_6:3।43-
उत । त्वम् । मघ-वन् । शृणु । यः । ते । वष्टि । ववक्षि । तत् । यत् । वीळयासि । वीळु । तत्

8.45.7

यत् । आजिम् । याति । आजि-कृत् । इन्द्रः । स्वश्व-युः । उप । रथि-तमः । रथीनाम्

8.45.8

वि । सु । विश्वाः । अभि-युजः । वज्रिन् । विष्वक् । यथा । वृह । भव । नः । सुश्रवः-तमः

8.45.9

अस्माकम् । सु । रथम् । पुरः । इन्द्रः । कृणोतु । सातये । न । यम् । धूर्वन्ति । धूतर्यः

8.45.10

वृज्याम । ते । परि । द्विषः । अरम् । ते । शक्र । दावने । गमेम । इत् । इन्द्र । गो--मतः

8.45.11

॥43॥.
-र्व्_6:3।44-
शनैः । चित् । यन्तः । अद्रि-वः । अश्व-वन्तः । शत-ग्विनः । विवक्षणाः । अनेहसः

8.45.12

ऊर्ध्वा । हि । ते । दिवे--दिवे । सहस्रा । सूनृता । शता । जरितृ-भ्यः । वि-मंहते

8.45.13

विद्म । हि । त्वा । धनम्-जयम् । इन्द्र । दृळ्हा । चित् । आरुजम् । आदारिणम् । यथा । गयम्

8.45.14

ककुहम् । चित् । त्वा । कवे । मन्दन्तु । धृष्णो इति । इन्दवः । आ । त्वा । पणिम् । यत् । ईमहे

8.45.15

यः । ते । रेवान् । अदाशुरिः । प्र-ममर्ष । मघत्तये । तस्य । नः । वेदः । आ । भर

8.45.16

॥44॥.
-र्व्_6:3।45-
इमे । ओं इति । त्वा । वि । चक्षते । सखायः । इन्द्र । सोमिनः । पुष्ट-वन्तः । यथा । पशुम्

8.45.17

उत । त्वा । अबधिरम् । वयम् । श्रुत्-कर्णम् । सन्तम् । ऊतये । दूरात् । इह । हवामहे

8.45.18

यत् । शुश्रूयाः । इमम् । हवम् । दुः-मर्षम् । चक्रियाः । उत । भवेः । आपिः । नः । अन्तमः

8.45.19

यत् । चित् । हि । ते । अपि । व्यथिः । जगन्वांसः । अमन्महि । गो--दाः । इत् । इन्द्र । बोधि । नः

8.45.20

आ । त्वा । रम्भम् । न । जिव्रयः । ररभ्म । शवसः । पते । उश्मसि । त्वा । सध-स्थे । आ

8.45.21

॥45॥.
-र्व्_6:3।46-
स्तोत्रम् । इन्द्राय । गायत । पुरु-नृम्णाय । सत्वने । नकिः । यम् । वृण्वते । युधि

8.45.22

अभि । त्वा । वृषभ । सुते । सुतम् । सृजामि । पीतये । तृम्प । वि । अश्नुहि । मदम्

8.45.23

मा । त्वा । मूराः । अविष्यवः । मा । उप-हस्वानः । आ । दभन् । माकीम् । ब्रह्म-द्विषः । वनः

8.45.24

इह । त्वा । गो--परीणसा । महे । मन्दन्तु । राधसे । सरः । गौरः । यथा । पिब

8.45.25

या । वृत्र-हा । परावति । सना । नवा । च । चुच्युवे । ता । संसत्-सु । प्र । वोचत

8.45.26

॥46॥.
-र्व्_6:3।47-
अपिबत् । कद्रुवः । सुतम् । इन्द्रः । सहस्र-बाह्वे । अत्र । अदेदिष्ट । पैंस्यम्

8.45.27

सत्यम् । तत् । तुर्वशे । यदौ । विदानः । अह्नवाय्यम् । वि । आनट् । तुर्वणे । शमि

8.45.28

तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गो--मतः । समानम् । ओं इति । प्र । शंसिषम्

8.45.29

ऋभुक्षणम् । न । वर्तवे । उक्थेषु । तुग्र्य-वृधम् । इन्द्रम् । सोमे । सचा । सुते

8.45.30

यः । कृन्तत् । इत् । वि । योन्यम् । त्रि-शोकाय । गिरिम् । पृथुम् । गो--भ्यः । गातुम् । निः-एतवे

8.45.31

॥47॥.
-र्व्_6:3।48-
यत् । दधिषे । मनस्यसि । मन्दानः । प्र । इत् । इयक्षसि । मा । तत् । कः । इन्द्र । मृळय

8.45.32

दभ्रम् । चित् । हि । त्वावतः । कृतम् । शृण्वे । अधि । क्षमि । जिगातु । इन्द्र । ते । मनः

8.45.33

तव । इत् । ओं इति । ताः । सु-कीर्तयः । असन् । उत । प्र-शस्तयः । यत् । इन्द्र । मृळयासि । नः

8.45.34

मा । नः । एकस्मिन् । आगसि । मा । द्वयोः । उत । त्रिषु । वधीः । मा । शूर । भूरिषु

8.45.35

बिभय । हि । त्वावतः । उग्रात् । अभि-प्रभङ्गिणः । दस्मात् । अहम् । ऋति-सहः

8.45.36

॥48॥.
-र्व्_6:3।49-
मा । सख्युः । शूनम् । आ । विदे । मा । पुत्रस्य । प्रभुवसो इतिप्रभु-वसो । आवृत्वत् । भूतु । ते । मनः

8.45.37

कः । नु । मर्याः । अमिथितः । सखा । सखायम् । अब्रवीत् । जहा । कः । अस्मत् । ईषते

8.45.38

एवारे । वृषभ । सुते । असिन्वन् । भूरि । आवयः । श्वघ्नी-इव । नि-वता । चरन्

8.45.39

आ । ते । एता । वचः-युजा । हरी इति । गृभ्णे । समत्-रथा । यत् । ईम् । ब्रह्म-भ्यः । इत् । ददः

8.45.40

भिन्धि । विश्वाः । अपः । द्विषः । परि । बाधः । जहि । मृधः । वसु । स्पार्हम् । तत् । आ । भर

8.45.41

यत् । वीळौ । इन्द्र । यत् । स्थिरे । यत् । पर्शाने । पराभृतम् । वसु । स्पार्हम् । तत् । आ । भर

8.45.42

यस्य । ते । विश्व-मानुषः । भूरेः । दत्तस्य । वेदति । वसु । स्पार्हम् । तत् । आ । भर

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc