भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.47

8.47.1

॥6॥.
-र्व्_6:4।7-
(र्व्_8,47)
महि । वः । महताम् । अवः । वरुण । मित्र । दाशुषे । यम् । आदित्याः । अभि । द्रुहः । रक्षथ । न । ईम् । अघम् । नशत् । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.2

विद । देवाः । अघानाम् । आदित्यासः । अप-आकृतिम् । पक्षा । वयः । यथा । उपरि । वि । अस्मे इति । शर्म । यच्छत । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.3

वि । अस्मे इति । अधि । शर्म । तत् । पक्षा । वयः । न । यन्तन । विश्वानि । विश्व-वेदसः । वरूथ्या । मनामहे । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.4

यस्मै । अरासत । क्षयम् । जीवातुम् । च । प्र-चेतसः । मनोः । विश्वस्य । घ । इत् । इमे । आदित्याः । रायः । ईशते । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.5

परि । नः । वृणजन् । अघा । दुः-गाणि । रथ्यः । यथा । स्याम । इत् । इन्द्रस्य । शर्मणि । आदित्यानाम् । उत । अवसि । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.6

॥7॥.
-र्व्_6:4।8-
परि-ह्वृता । इत् । अना । जनः । युष्मादत्तस्य । वायति । देवाः । अदभ्रम् । आश । वः । यम् । आदित्याः । अहेतन । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.7

न । तम् । तिग्मम् । चन । त्यजः । न । द्रासत् । अभि । तम् । गुरु । यस्मै । ओं इति । शर्म । स-प्रथः । आदित्यासः । अराध्वम् । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.8

युष्मे इति । देवाः । अपि । स्मसि । युध्यन्तः-इव । वर्मसु । यूयम् । महः । नः । एनसः । यूयम् । अर्भात् । उरुष्यत । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.9

अदितिः । नः । उरुष्यतु । अदितिः । शर्म । यच्छतु । माता । मित्रस्य । रेवतः । अयर्म्णः । वरुणस्य । च । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.10

यत् । देवाः । शर्म । शरणम् । यत् । भद्रम् । यत् । अनातुरम् । त्रि-धातु । यत् । वरूथ्यम् । तत् । अस्मासु । वि । यन्तन । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.11

॥8॥.
-र्व्_6:4।9-
आदित्याः । अव । हि । ख्यत । अधि । कूलात्-इव । स्पशः । सु-तीर्थम् । अर्वतः । यथा । अनु । नः । नेषथ । सु-गम् । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.12

न । इह । भद्रम् । रक्षस्विने । न । अव-यै । न । उप-यै । उत । गवे । च । भद्रम् । धेनवे । वीराय । च । श्रवस्यते । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.13

यत् । आविः । यत् । अपीच्यम् । देवासः । अस्ति । दुः-कृतम् । त्रिते । तत् । विश्वम् । आप्त्ये । आरे । अस्मत् । दधातन । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.14

यत् । च । गोषु । दुः-स्वप्न्यम् । यत् । च । अस्मे इति । दुहितः । दिवः । त्रिताय । तत् । विभावरि । आप्त्याय । परा । वह । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.15

निष्कम् । वा । घ । कृणवते । स्रजम् । वा । दुहितः । दिवः । त्रिते । दुः-स्वप्न्यम् । सर्वम् । आप्त्ये । परि । दद्मसि । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.16

॥9॥.
-र्व्_6:4।10-
तत्-अन्नाय । तत्-अपसे । तम् । भागम् । उप-सेदुषे । त्रिताय । च । द्विताय । च । उषः । दुः-स्वप्न्यम् । वह । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.17

यथा । कलाम् । यथा । शफम् । यथा । ऋणम् । सम्-नयामसि । एव । दुः-स्वप्न्यम् । सर्वम् । आप्त्ये । सम् । नयामसि । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

8.47.18

अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् । उषः । यस्मात् । दुः-स्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु । अनेहसः । वः । ऊतयः । सु-ऊतयः । वः । ऊतयः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc