ऋग्वेदसंहिता, पदपाठ · अध्याय 8.26
॥25॥.
-र्व्_6:2।26-
(र्व्_8,26)
युवोर् ओं इति । सु । रथम् । हुवे । सध-स्तुत्याय । सूरिषु । अतूर्त-दक्षा । वृषणा । वृषण्वसूइतिवृषण्-वसू
युवम् । वरो इति । सु-साम्णे । महे । तने । नासत्या । अवः-भिः । याथः । वृषणा । वृषण्वसूइतिवृषण्-वसू
ता । वाम् । अद्य । हवामहे । हव्येभिः । वाजिनीवसूइतिवाजिनी-वसू । पूर्वीः । इषः । इषयन्तौ । अति । क्षपः
आ । वाम् । वाहिष्ठः । अश्विना । रथः । यातु । श्रुतः । नरा । उप । स्तोमान् । तुरस्य । दर्शथः । श्रिये
जुहुराणा । चित् । अश्विना । आ । मन्येथाम् । वृषण्वसूइतिवृषण्-वसू । युवम् । हि । रुद्रा । पर्षथः । अति । द्विषः
॥26॥.
-र्व्_6:2।27-
दस्रा । हि । विश्वम् । आनुषक् । मक्षु-भिः । परि-दीयथः । धियम्-जिन्वा । मधु-वर्णा । शुभः । पती इति
उप । नः । यातम् । अश्विना । राया । विश्व-पुषा । सह । मघ-वाना । सु-वीरौ । अनप-च्युता
आ । मे । अस्य । प्रतीव्यम् । इन्द्रनासत्या । गतम् । देवा । देवेभिः । अद्य । सचनः-तमा
वयम् । हि । वाम् । हवामहे । उक्षण्यन्तः । व्यश्व-वत् । सुमति-भिः । उप । विप्रौ । इह । आ । गतम्
अश्विना । सु । ऋषे । स्तुहि । कुवित् । ते । श्रवतः । हवम् । नेदीयसः । कूळयातः । पणीन् । उत
॥27॥.
-र्व्_6:2।28-
वैयश्वस्य । श्रुतम् । नरा । उतो इति । मे । अस्य । वेदथः । स-जोषसा । वरुणः । मित्रः । अर्यमा
युवादत्तस्य । धिष्ण्या । युवानीतस्य । सूरि-भिः । अहः-अहः । वृषणा । मह्यम् । शिक्षतम्
यः । वाम् । यज्ञेभिः । आवृतः । अधि-वस्त्रा । वधूः-इव । सपर्यन्ता । शुभे । चक्रातेइति । अश्विना
यः । वाम् । उरुव्यचः-तमम् । चिकेतति । नृ-पाय्यम् । वर्तिः । अश्विना । परि । यातम् । अस्मयू इत्य् अस्म-यू
अस्मभ्यम् । सु । वृषण्वसूइतिवृषण्-वसू । यातम् । वर्तिः । नृ-पाय्यम् । विषुद्रुहाइव । यज्ञम् । ऊहथुः । गिरा
॥28॥.
-र्व्_6:2।29-
वाहिष्ठः । वाम् । हवानाम् । स्तोमः । दूतः । हुवत् । नरा । युवाभ्याम् । भूतु । अश्विना
यत् । अदः । दिवः । अर्णवे । इषः । वा । मदथः । गृहे । श्रुतम् । इत् । मे । अमर्त्या
उत । स्या । श्वेत-यावरी । वाहिष्ठा । वाम् । नदीनाम् । सिन्धुः । हिरण्य-वर्तनि ः
स्मत् । एतया । सु-कीर्त्या । अश्विना । श्वेतया । धिया । वहेथेइति । शुभ्र-यावाना
युक्ष्व । हि । त्वम् । रथ-सहा । युवस्व । पोष्या । वसो इति । आत् । नः । वायो इति । मधु । पिब । अस्माकम् । सवना । आ । गहि
॥29॥.
-र्व्_6:2।30-
तव । वायो इति । ऋतः-पते । त्वष्टुः । जामातः । अद्भुत । अवांसि । आ । वृणीमहे
त्वष्टुः । जामातरम् । वयम् । ईशानम् । रायः । ईमहे । सुत-वन्तः । वायुम् । द्युम्ना । जनासः
वायो इति । याहि । शिव । आ । दिवः । वहस्व । सु । सु-अश्व्यम् । वहस्व । महः । पृथु-पक्षसा । रथे
त्वाम् । हि । सुप्सरः-तमम् । नृ-सदनेषु । हूमहे । ग्रावाणम् । न । अश्व-पृष्ठम् । मंहना
सः । त्वम् । नः । देव । मनसा । वायो इति । मन्दानः । अग्रियः । कृधि । वाजान् । अपः । धियः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0