भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.25

8.25.1

॥20॥.
-र्व्_6:2।21-
(र्व्_8,25)
ता । वाम् । विश्वस्य । गोपा । देवा । देवेषु । यज्ञिया । ऋत-वाना । यजसे । पूत-दक्षसा

8.25.2

मित्रा । तना । न । रथ्या । वरुणः । यः । च । सु-क्रतुः । सनात् । सु-जाता । तनया । धृत-व्रता

8.25.3

ता । माता । विश्व-वेदसा । असुर्याय । प्र-महसा । मही । जजान । अदितिः । ऋत-वरी

8.25.4

महान्ता । मित्रावरुणा । सम्-राजा । देवौ । असुरा । ऋत-वानौ । ऋतम् । आ । घोषतः । बृहत्

8.25.5

नपाता । शवसः । महः । सूनू इति । दक्षस्य । सुक्रतूइतिसु-क्रतू । सृप्रदानूइतिसृप्र-दानू । इषः । वास्तु । अधि । क्षितः

8.25.6

॥21॥.
-र्व्_6:2।22-
सम् । या । दानूनि । येमथुः । दिव्याः । पार्थिवीः । इषः । नभस्वतीः । आ । वाम् । चरन्तु । वृष्टयः

8.25.7

अधि । या । बृहतः । दिवः । अभि । यूथाइव । पश्यतः । ऋत-वाना । सम्-राजा । नमसे । हिता

8.25.8

ऋत-वाना । नि । सेदतुः । साम्-राज्याय । सुक्रतूइतिसु-क्रतू । धृत-व्रता । क्षत्रिया । क्षत्रम् । आशतुः

8.25.9

अक्ष्णः । चित् । गातुवित्-तरा । अनुल्बणेन । चक्षसा । नि । चित् । मिषन्ता । नि-चिरा । नि । चिक्यतुः

8.25.10

उत । नः । देवी । अदितिः । उरुष्यताम् । नासत्या । उरुष्यन्तु । मरुतः । वृद्ध-शवसः

8.25.11

॥22॥.
-र्व्_6:2।23-
ते । नः । नावम् । उरुष्यत । दिवा । नक्तम् । सु-दानवः । अरिष्यन्तः । नि । पायु-भिः । सचेमहि

8.25.12

अघ्नते । विष्णवे । वयम् । अरिष्यन्तः । सु-दानवे । श्रुधि । स्व-यावन् । सिन्धो इति । पूर्व-चित्तये

8.25.13

तत् । वार्यम् । वृणीमहे । वरिष्ठम् । गोपयत्यम् । मित्रः । यत् । पान्ति । वरुणः । यत् । अर्यमा

8.25.14

उत । नः । सिन्धुः । अपाम् । तत् । मरुतः । तत् । अश्विना । इन्द्रः । विष्णुः । मीढवांसः । स-जोषसः

8.25.15

ते । हि । स्म । वनुषः । नरः । अभि-मातिम् । कयस्य । चित् । तिग्मम् । न । क्षोदः । प्रति-घ्नन्ति । भूर्णयः

8.25.16

॥23॥.
-र्व्_6:2।24-
अयम् । एकः । इत्था । पुरु । उरु । चष्टे । वि । विश्पतिः । तस्य । व्रतानि । अनु । वः । चरामसि

8.25.17

अनु । पूर्वाणि । ओक्या । साम्-राज्यस्य । सश्चिम । मित्रस्य । व्रता । वरुणस्य । दीर्घ-श्रुत्

8.25.18

परि । यः । रश्मिना । दिवः । अन्तान् । ममे । पृथिव्याः । उभे इति । आ । पप्रौ । रोदसी इति । महित्वा

8.25.19

उत् । ओं इति । स्यः । शरणे । दिवः । ज्योतिः । अयंस्त । सूर्यः । अग्निः । न । शुक्रः । सम्-इधानः । आहुतः

8.25.20

वचः । दीर्घ-प्रसद्मनि । ईशे । वाजस्य । गो--मतः । ईशे । हि । पित्वः । अविषस्य । दावने

8.25.21

॥24॥.
-र्व्_6:2।25-
तत् । सूर्यम् । रोदसी इति । उभे इति । दोषा । वस्तोः । उप । ब्रुवे । भोजेषु । अस्मान् । अभि । उत् । चर । सदा

8.25.22

ऋज्रम् । उक्षण्यायने । रजतम् । हरयाणे । रथम् । युक्तम् । असनाम । सु-सामनि

8.25.23

ता । मे । अश्व्यानाम् । हरीणाम् । नि-तोशना । उतो इति । नु । कृत्व्यानाम् । नृ-वाहसा

8.25.24

स्मदभीशूइतिस्मत्-अभीशू । कशावन्ता । विप्रा । नविष्ठया । मती । महः । वाजि नौ । अर्वन्ता । सचा । असनम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc