ऋग्वेदसंहिता, पदपाठ · अध्याय 8.27
॥30॥.
-र्व्_6:2।31-
(र्व्_8,27)
अग्निः । उक्थे । पुरः-हितः । ग्रावाणः । बर्हिः । अध्वरे । ऋचा । यामि । मरुतः । ब्रह्मणः । पतिम् । देवान् । अवः । वरेण्यम्
आ । पशुम् । गासि । पृथिवीम् । वनस्पतीन् । उषसा । नक्तम् । ओषधीः । विश्वे । च । नः । वसवः । विश्व-वेदसः । धीनाम् । भूत । प्र-अवितारः
प्र । सु । नः । एतु । अध्वरः । अग्ना । देवेषु । पूर्व्यः । आदित्येषु । प्र । वरुणे । धृत-व्रते । मरुत्-सु । विश्व-भानुषु
विश्वे । हि । स्म । मनवे । विश्व-वेदसः । भुवन् । वृधे । रिशादसः । अरिष्टेभिः । पायु-भिः । विश्व-वेदसः । यन्त । नः । अवृकम् । छर्दिः
आ । नः । अद्य । स-मनसः । गन्त । विश्वे । स-जोषसः । ऋचा । गिरा । मरुतः । देवि । अदिते । सदने । पस्त्ये । महि
॥31॥.
-र्व्_6:2।32-
अभि । प्रिया । मरुतः । या । वः । अश्व्या । हव्या । मित्र । प्र-याथन । आ । बर्हिः । इन्द्रः । वरुणः । तुराः । नरः । आदित्यासः । सदन्तु । नः
वयम् । वः । वृक्त-बर्हिषः । हित-प्रयसः । आनुषक् । सुत-सोमासः । वरुण । हवामहे । मनुष्वत् । इद्ध-अग्नयः
आ । प्र । यात । मरुतः । विष्णो इति । अश्विना । पूषन् । माकीनया । धिया । इन्द्रः । आ । यातु । प्रथमः । सनिष्यु-भ् इः । वृषा । यः । वृत्र-हा । गृणे
वि । नः । देवासः । अद्रुहः । अच्छिद्रम् । शर्म । यच्छत । न । यत् । दूरात् । वसवः । नु । चित् । अन्तितः । वराऊथम् । आदधर्षति
अस्ति । हि । वः । सजात्यम् । रिशादसः । देवासः । अस्ति । आप्यम् । प्र । नः । पूर्वस्मै । सुविताय । वोचत । मक्षु । सुम्नाय । नव्यसे
॥32॥.
-र्व्_6:2।33-
इदा । हि । वः । उप-स्तुतिम् । इदा । वामस्य । भक्तये । उप । वः । विश्व-वेदसः । नमस्युः । आ । असृक्षि । अन्याम्-इव
उत् । ओं इति । स्यः । वः । सविता । सु-प्रनीतयः । अस्थात् । ऊर्ध्वः । वरेण्यः । नि । द्व् इ-पादः । चतुः-पादः । अर्थिनः । अविश्रन् । पतयिष्णवः
देवम्-देवम् । वः । अवसे । देवम्-देवम् । अभिष्टये । देवम्-देवम् । हुवेम । वाज-सातये । गृणन्तः । देव्या । धिया
देवासः । हि । स्म । मनवे । स-मन्यवः । विश्वे । साकम् । स-रातयः । ते । नः । अद्य । ते । अपरम् । तुचे । तु । नः । भवन्तु । वरिवः-विदः
प्र । वः । शंसामि । अद्रुहः । सम्-स्थे । उप-स्तुतीनाम् । न । तम् । धूर्तिः । वरुण । मित्र । मर्त्यम् । यः । वः । धाम-भ्यः । अविधत्
प्र । सः । क्षयम् । तिरते । वि । महीः । इषः । यः । वः । वराय । दाशति । प्र । प्र-जाभिः । जायते । धर्मणः । परि । अरिष्टः । सर्वः । एधते
॥33॥.
-र्व्_6:2।34-
ऋते । सः । विन्दते । युधः । सु-गेभिः । याति । अध्वनः । अर्यमा । मित्रः । वरुणः । स-रातयः । यम् । त्रायन्ते । स-जोषसः
अज्रे । चित् । अस्मै । कृणुथ । नि-अञ्चनम् । दुः-गे । चित् । आ । सु-सरणम् । एषा । चित् । अस्मात् । अशनिः । परः । नु । सा । अस्रेधन्ती । वि । नश्यतु
यत् । अद्य । सूर्यः । उत्-यति । प्रिय-क्षत्राः । ऋतम् । दध । यत् । नि-म्रुचि । प्र-बुधि । विश्व-वेदसः । यत् । वा । मध्यन्दिने । दिवः
यत् । वा । अभि-पित्वे । असुराः । ऋतम् । यते । छर्दिः । येम । वि । दाशुषे । वयम् । तत् । वः । वसवः । विश्व-वेदसः । उप । स्थेयाम । मध्ये । आ
यत् । अद्य । सूरे । उत्-इते । यत् । मध्यन्दिने । आतुचि । वामम् । धत्थ । मनवे । वि श्व-वेदसः । जुह्वानाय । प्र-चेतसे
वयम् । तत् । वः । सम्-राजः । आ । वृणीमहे । पुत्रः । न । बहु-पाय्यम् । अश्याम । तत् । आदित्याः । जुह्वतः । हविः । येन । वस्यः । अनशामहै
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0