ऋग्वेदसंहिता, पदपाठ · अध्याय 8.20
॥35॥.
-र्व्_6:1।36-
(र्व्_8,20)
आ । गन्ता । मा । रिषण्यत । प्र-स्थावानः । मा । अप । स्थात । स-मन्यवः । स्थि रा । चित् । नमयिष्णवः
वीळुपवि-भिः । मरुतः । ऋभुक्षणः । आ । रुद्रासः । सुदीति-भिः । इषा । नः । अद्य । आ । गत् अ । पुरु-स्पृहः । यज्ञम् । आ । सोभरी-यवः
विद्म । हि । रुद्रियाणाम् । शुष्मम् । उग्रम् । मरुताम् । शमी-वताम् । विष्णोः । एषस्य । मीळ्हुषाम्
वि । द्वीपानि । पापतन् । तिष्ठत् । दुच्छुना । उभे इति । युजन्त । रोदसी इति । प्र । धन्वानि । ऐरत । शुभ्र-खादयः । यत् । एजथ । स्व-भानवः
अच्युता । चित् । वः । अज्मन् । आ । नानदति । पर्वतासः । वन्चस्पतिः । भूमिः । यामेषु । रेजते
॥36॥.
-र्व्_6:1।37-
अमाय । वः । मरुतः । यातवे । द्यौः । जिहीते । उत्-तरा । बृहत् । यत्र । नरः । देदिशते । तनूषु । आ । त्वक्षांसि बहु-ओजसः
स्वधाम् । अनु । श्रियम् । नरः । महि । त्वेषाः । अम-वन्तः । वृष-प्सवः । वहन्ते । अह्रुत-प्सवः
गोभिः । वाणः । अज्यते । सोभरीणाम् । रथे । कोशे । हिरण्यये । गो--बन्धवः । सु-जातासः । इषे । भुजे । महान्तः । नः । स्परसे । नु
प्रति । वः । वृषत्-अञ्जयः । वृष्णे । शर्धाय । मारुताय । भरध्वम् । हव्या । वृष-प्रयाव्णे
वृषणश्वेन । मरुतः । वृष-प्सुना । रथेन । वृष-नाभिना । आ । श्येनासः । न । पक्षिणः । वृथा । नरः । हव्या । नः । वीतयेगत
॥37॥.
-र्व्_6:1।38-
समानम् । अञ्जि । एषाम् । वि । भ्राजन्ते । रुक्मासः । अधि । बाहुषु । दविद्युतति । ऋष्टयः
ते । उग्रासः । वृषणः । उग्र-बाहवः । नकिः । तनूषु । येतिरे । स्थिरा । धन्वान् इ । आयुधा । रथेषु । वः । अनीकेषु । अधि । श्रियः
येषाम् । अर्णः । न । स-प्रथः । नाम । त्वेषम् । शश्वताम् । एकम् । इत् । भुजे । वयः । न । पित्र्यम् । सहः
तान् । वन्दस्व । मरुतः । तान् । उप । स्तुहि । तेषाम् । हि । धुनीनाम् । अराणाम् । न । चरमः । तत् । एषाम् । दाना । मह्ना । तत् । एषाम्
सु-भगः । सः । वः । ऊतिषु । आस । पूर्वासु । मरुतः । वि-उष्टिषु । यः । वा । नूनम् । उत । असति
॥38॥.
-र्व्_6:1।39-
यस्य । वा । यूयम् । प्रति । वाजिनः । नरः । आ । हव्या । वीतये । गथ । अभि । सः । द्युम्नैः । उत । वाजसाति-भिः । सुम्ना । वः । धूतयः । नशत्
यथा । रुद्रस्य । सूनवः । दिवः । वशन्ति । असुरस्य । वेधसः । युवानः । तथा । इत् । असत्
ये । च । अर्हन्ति । मरुतः । सु-दानवः । स्मत् । मीळ्हुषः । चरन्ति । ये । अतः । चित् । आ । नः । उप । वस्यसा । हृदा । युवानः । आ । ववृध्वम्
यूनः । ओं इति । सु । नविष्ठया । वृष्णः । पावकान् । अभि । सोभरे । गिरा । गाय । गाः-इव । चकृर्षत्
सहाः । ये । सन्ति । मुष्टिहाइव । हव्यः । विश्वासु । पृत्-सु । होतृषु । वृष्णः । चन्द्रान् । न । सुश्रवः-तमान् । गिरा । वन्दस्व । मरुतः । अह
॥39॥.
-र्व्_6:1।40-
गावः । चित् । घ । स-मन्यवः । स-जात्येन । मरुतः । स-बन्धवः । रिहते । ककुभः । मिथः
मर्तः । चित् । वः । नृतवः । रुक्म-वक्षसः । उप । भ्रातृ-त्वम् । आ । अयति । अधि । नः । गात । मरुतः । सदा । हि । वः । आपि-त्वम् । अस्ति । नि-ध्रुवि
मरुतः । मारुतस्य । नः । आ । भेषजस्य । वहत । सु-दानवः । यूयम् । सखायः । सप्तयः
याभिः । सिन्धुम् । अवथ । याभिः । तूर्वथ । याभिः । दशस्यथ । क्रिविम् । मयः । नः । भूत । ऊति-भिः । मयः-भुवः । शिवाभिः । असच-द्विषः
यत् । सिन्धौ । यत् । असिक्न्याम् । यत् । समुद्रेषु । मरुतः । सु-बर्हिषः । यत् । पर्वतेषु । भेषजम्
विश्वम् । पश्यन्तः । विभृथ । तनूषु । आ । तेन । नः । अधि । वोचत । क्षमा । रपः । मरुतः । आतुरस्य । नः । इष्कर्त । वि-ह्रुतम् । पुनरिति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0