ऋग्वेदसंहिता, पदपाठ · अध्याय 8.21
॥40॥.
-र्व्_6:2।1-
(र्व्_8,21)
वयम् । ओं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वाजे । चित्रम् । हवामहे
उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चकाम । यः । धृषत् । त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । इन्द्र । सानसिम्
आ । याहि । इमे । इन्दवः । अश्व-पते । गो--पते । उर्वरापते । सोमम् । सोम-पते । पिब
वयम् । हि । त्वा । बन्धु-मन्तम् । अबन्धवः । विप्रासः । इन्द्र । येमिम । या । ते । धामानि । वृषभ । तेभिः । आ । गहि । विश्वेभिः । सोम-पीतये
सीदन्तः । ते । वयः । यथा । गो--श्रीते । मधौ । मदिरे । विवक्षणे । अभि । त्वाम् । इन्द्र । नोनुमः
॥1॥.
-र्व्_6:2।2-
अच्छ । च । त्वा । एना । नमसा । वदामसि । किम् । मुहुः । चित् । वि । दीधयः । सन्ति । कामासः । हरि-वः । ददिः । त्वम् । स्मः । वयम् । सन्ति । नः । धियः
नूत्नाः । इत् । इन्द्र । ते । वयम् । ऊती । अभूम । नहि । नु । ते । अद्रि-वः । विद्म । पुरा । परीणसः
विद्म । सखि-त्वम् । उत । शूर । भोज्यम् । आ । ते । ता । वज्रिन् । ईमहे । उतो इति । समस्मिन् । आ । शिशीहि । नः । वसो इति । वाजे । सु-शिप्र । गो--मति
यः । नः । इदम्-इदम् । पुरा । प्र । वस्यः । आनिनाय । तम् । ओं इति । वः । स्तुषे । सखायः । इन्द्रम् । ऊतये
हरि-अश्वम् । सत्-पतिम् । चर्षणि-सहम् । सः । हि । स्म । यः । अमन्दत । आ । तु । नः । सः । वयति । गव्यम् । अश्व्यम् । स्तोतृ-भ्यः । मघ-वा । शतम्
॥2॥.
-र्व्_6:2।3-
त्वया । ह । स्वित् । युजा । वयम् । प्रति । श्वसन्तम् । वृषभ । ब्रुवीमहि । संस्थे । जनस्य । गो--मतः
जयेम । कारे । पुरु-हूत । कारिणः । अभि । तिष्ठेम । दुः-ध्यः । नृ-भिः । वृत्रम् । हन्याम । शूशुयाम । च । अवेः । इन्द्र । प्र । नः । धियः
अभ्रातृव्यः । अना । त्वम् । अनापिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपि-त्वम् । इच्छसे
नकिः । रेवन्तम् । सख्याय । विन्दसे । पीयन्ति । ते । सुराश्वः । यदा । कृणोषि । नदनुम् । सम् । ऊहसि । आत् । इत् । पिताइव । हूयसे
मा । ते । अमाजुरः । यथा । मूरासः । इन्द्र । सख्ये । त्वावतः । नि । सदाम । सचा । सुते
॥3॥.
-र्व्_6:2।4-
मा । ते । गो--दत्र । निः । अराम । राधसः । इन्द्र । मा । ते । गृहामहि । दृळ्हा । चित् । अर्यः । प्र । मृश । अभि । आ । भर । न । ते । दामानः । आदभे
इन्द्रः । वा । घ । इत् । इयत् । मघम् । सरस्वती । वा । सु-भगा । ददिः । वसु । त्वम् । वा । चित्र । दाशुषे
चित्रः । इत् । राजा । राजकाः । इत् । अन्यके । यके । सरस्वतीम् । अनु । पर्जन्यः-इव । ततनत् । हि । वृष्ट्या । सहस्रम् । अयुता । ददत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0