ऋग्वेदसंहिता, पदपाठ · अध्याय 8.19
॥28॥.
-र्व्_6:1।29-
(र्व्_8,19)
तम् । गूर्धय । स्वः-नरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देव-त्रा । हव्यम् । आ । ऊहिरे
विभूत-रातिम् । विप्र । चित्र-शोचिषम् । अग्निम् । ईळिष्व । यन्तुरम् । अस्य । मेघस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम्
यजिष्ठम् । त्वा । ववृमहे । देवम् । देव-त्रा । होतारम् । अमर्त्यम् । अस्य । यज्ञस्य । सु-क्रतुम्
ऊर्जः । नपातम् । सु-भगम् । सु-दीदितिम् । अग्निम् । श्रेष्ठ-शोचिषम् । सः । नः । मित्रस्य । वरुणस्य । सः । अपाम् । आ । सुम्नम् । यक्षते । दिवि
यः । सम्-इधा । यः । आहुती । यः । वेदेन । ददाश । मर्तः । अग्नये । यः । नमसा । सु-अध्वरः
॥29॥.
-र्व्_6:1।30-
तस्य । इत् । अर्वन्तः । रंहयन्ते । आशवः । तस्य । द्युम्नि-तमम् । यशः । न । तम् । अंहः । देव-कृतम् । कुतः । चन । न । मर्त्य-कृतम् । नशत्
सु-अग्नयः । वः । अग्नि-भिः । स्याम । सूनो इति । सहसः । ऊर्जाम् । पते । सु-वीरः । त्वम् । अस्म-युः
प्र-शंसमानः । अतिथिः । न । मित्रियः । अग्निः । रथः । न । वेद्यः । त्वेइत् इ । क्षेमासः । अपि । सन्ति । साधवः । त्वम् । राजा । रयीणाम्
सः । अद्धा । दाशु-अध्वरः । अग्ने । मर्तः । सु-भग । सः । प्र-शंस्यः । सः । धीभिः । अस्तु । सनिता
यस्य । त्वम् । ऊर्ध्वः । अध्वराय । तिष्ठसि । क्षयत्-वीरः । सः । साधते । सः । अर्वत्-भिः । सनिता । सः । विपन्यु-भिः । सः । शूरैः । सनिता । कृतम्
॥30॥.
-र्व्_6:1।31-
यस्य । अग्निः । वपुः । गृहे । स्तोमम् । चनः । दधीत । विश्व-वार्यः । हव्या । वा । वेविषत् । विषः
विप्रस्य । वा । स्तुवतः । सहसः । यहो इति । मक्षु-तमस्य । रातिषु । अवः-देवम् । उपरि-मर्त्यम् । कृधि । वसो इति । विविदुषः । वचः
यः । अग्निम् । हव्यदाति-भिः । नमः-भिः । वा । सु-दक्षम् । आविवासति । गिरा । वा । अजिर-शोचिषम्
सम्-इधा । यः । नि-शिती । दाशत् । अदितिम् । धाम-भिः । अस्य । मर्त्यः । विश्वा । इत् । सः । धीभिः । सु-भगः । जनान् । अति । द्युम्नैः । उद्गः-इव । तारिषत्
तत् । अग्ने । द्युम्नम् । आ । भर । यत् । ससहत् । सदने । कम् । चित् । अत्रिणम् । मन्युम् । जनस्य । दुः-ध्यः
॥31॥.
-र्व्_6:1।32-
येन । चष्टे । वरुणः । मित्रः । अर्यमा । येन । नासत्या । भगः । वयम् । तत् । ते । शवसा । गातुवित्-तमाः । इन्द्रत्वाऊताः । विधेमहि
ते । घ । अग्ने । सु-आध्यः । ये । त्वा । विप्र । नि-दधिरे । नृ-चक्षसम् । विप्रासः । देव । सु-क्रतुम्
ते । इत् । वेदिम् । सु-भग । ते । आहुतिम् । ते । सोतुम् । चक्रिरे । दिवि । त् ए । इत् । वाजेभिः । जिग्युः । महत् । धनम् । ये । त्वे इति । कामम् । नि- एरिरे
भद्रः । नः । अग्निः । आहुतः । भद्रा । रातिः । सु-भग । भद्रः । अध्वरः । भद्राः । उत । प्र-शश्तयः
भद्रम् । मनः । कृणुष्व । वृत्र-तूर्ये । येन । समत्-सु । ससहः । अव । स्थ् इरा । तनुहि । भूरि । शर्धताम् । वनेम । ते । अभिष्टि-भिः
॥32॥.
-र्व्_6:1।33-
इळे । गिरा । मनुः-हितम् । यम् । देवाः । दूतम् । अरतिम् । नि-एरिरे । यजिष्ठम् । हव्य-वाहनम्
तिग्म-जम्भाय । तरुणाय । राजते । प्रयः । गायसि । अग्नये । यः । पिंशते । सूनृताभिः । सु-वीर्यम् । अग्निः । घृतेभिः । आहुतः
यदि । घृतेभिः । आहुतः । वाशीम् । अग्निः । भरते । उत् । च । अव । च । असुरः-इव । निः-निजम्
यः । हव्यानि । ऐरयत । मनुः-हितः । देवः । आसा । सु-गन्धिना । विवासते । वार्याणि । सु-अध्वरः । होता । देवः । अमर्त्यः
यत् । अग्ने । मर्त्यः । त्वम् । स्याम् । अहम् । मित्र-महः । अमर्त्यः । सहसः । सूनो इति । आहुत
॥33॥.
-र्व्_6:1।34-
न । त्वा । रासीय । अभि-शस्तये । वसो इति । न । पाप-त्वाय । सन्त्य । न । मे । स्तोता । अमति-वा । न । दुः-हितः । स्यात् । अग्ने । न । पापया
पितुः । न । पुत्रः । सु-भृतः । दुरोणे । आ । देवान् । एतु । प्र । नः । हविः
तव । अहम् । अग्ने । ऊति-भिः । नेदिष्ठाभिः । सचेय । जोषम् । आ । वसो इति । सदा । देवस्य । मर्त्यः
तव । क्रत्वा । सनेयम् । तव । राति-भिः । अग्ने । तव । प्रशश्ति-भिः । त्वाम् । इत् । आहुः । प्र-मतिम् । वसो इति । मम । अग्ने । हर्षस्व । दातवे
प्र । सः । अग्ने । तव । ऊति-भिः । सु-वीराभिः । तिरते । वाजभर्म-भिः । यस्य । त्वम् । सख्यम् । आवरः
॥34॥.
-र्व्_6:1।35-
तव । द्रप्सः । नील-वान् । वाशः । ऋत्वियः । इन्धानः । सिष्णो इति । आ । ददे । त्वम् । महीनाम् । उषसाम् । असि । प्रियः । क्षपः । वस्तुषु । राजसि
तम् । आ । अगन्म । सोभरयः । सहस्र-मुष्कम् । सु-अभिष्टिम् । अवसे । सम्-राजन् । त्रासदस्यवम्
यस्य । ते । अग्ने । अन्ये । अग्नयः । उप-क्षितः । वयाः-इव । विपः । न । द्युम्ना । नि । युवे । जनानाम् । तव । क्षत्राणि । वर्धयन्
यम् । आदित्यासः । अद्रुहः । पारम् । नयथ । मर्त्यम् । मघोनाम् । विश्वेषाम् । सु-दानवः
यूयम् । राजानः । कम् । चित् । चर्षणि-सहः । क्षयन्तम् । मानुषान् । अनु । वयम् । ते । वः । वरुण । मित्र । अर्यमन् । स्याम । इत् । ऋतस्य । रथ्यः
अदात् । मे । पौरु-कुत्स्यः । पञ्चाशतम् । त्रसदस्युः । वधूनाम् । मंहिष्ठः । अर्यः । सत्-पतिः
उत । मे । प्रयियोः । वयियोः । सु-वास्त्वाः । अधि । तुग्वनि । तिसॄणाम् । सप्ततीनाम् । श्यावः । प्र-नेता । भुवत् । वसुः । दियानाम् । पतिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0