ऋग्वेदसंहिता, पदपाठ · अध्याय 8.18
॥24॥.
-र्व्_6:1।25-
(र्व्_8,18)
इदम् । ह । नूनम् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः । आदित्यानाम् । अपूर्व्यम् । सवीमनि
अनर्वाणः । हि । एषाम् । पन्था । आदित्यानाम् । अदब्धाः । सन्ति । पायवः । सुगे--वृधः
तत् । सु । नः । सविता । भगः । वरुणः । मित्रः । अर्यमा । शर्म । यच्छन्तु । स-प्रथः । यत् । ईमहे
देवेभिः । देवि । अदिते । अरिष्त-भर्मन् । आ । गहि । स्मत् । सूरि-भिः । पुरु-प्रिये । सुशर्म-भिः
ते । हि । पुत्रासः । अदितेः । विदुः । द्वेषांसि । योतवे । अंहोः । चित् । उरु-चक्रयः । अनेहसः
॥25॥.
-र्व्_6:1।26-
अदितिः । नः । दिवा । पशुम् । अदितिः । नक्तम् । अद्वयाः । अदितिः । पातु । अंहसः । सदावृधा
उत । स्या । नः । दिवा । मतिः । अदितिः । ऊत्या । आ । गमत् । सा । शम्-ताति । मयः । करत् । अप । स्रिधः
उत । त्या । दैव्या । भिषजा । शम् । नः । करतः । अश्विना । युयुयाताम् । इतः । रपः । अप । स्रिधः
शम् । अग्निः । अग्नि-भिः । करत् । शम् । नः । तपतु । सूर्यः । शम् । वातः । वातु । अरपाः । अप । स्रिधः
अप । अमीवाम् । अप । स्रिधम् । अप । सेधत । दुः-मतिम् । आदित्यासः । युयोतन । नः । अंहसः
॥26॥.
-र्व्_6:1।27-
युयोत । शरुम् । अस्मत् । आ । आदित्यासः । उत । अमतिम् । ऋधक् । द्वेषः । कृणुत । विश्व-वेदसः
तत् । सु । नः । शर्म । यच्छत । आदित्याः । यत् । मुमोचति । एनस्वन्तम् । चित् । एनसः । सु-दानवः
यः । नः । कः । चित् । रिरिक्षति । रक्षः-त्वेन । मर्त्यः । स्वैः । सः । एवैः । रिरिषीष्ट । युः । जनः
सम् । इत् । तम् । अघम् । अश्नवत् । दुः-शंसम् । मर्त्यम् । रिपुम् । यः । अस्म-त्रा । दुः-हनावान् । उप । द्वयुः
पाक-त्रा । स्थन । देवाः । हृत्-सु । जानीथ । मर्त्यम् । उप । द्वयुम् । च । अद्वयुम् । च । वसवः
॥27॥.
-र्व्_6:1।28-
आ । शर्म । पर्वतानाम् । आ । उत । अपाम् । वृणीमहे । द्यावाक्षामा । आरे । अस्मत् । रपः । कृतम्
ते । नः । भद्रेण । शर्मणा । युष्माकम् । नावा । वसवः । अति । विश्वानि । दुः-इता । पिपर्तन
तुचे । तनाय । तत् । सु । नः । द्राघीयः । आयुः । जीवसे । आदित्यासः । सु-महसः । कृणोतन
यज्ञः । हीळः । वः । अन्तरः । आदित्याः । अस्ति । मृळत । युष्मे इति । इत् । वः । अपि । स्मसि । स-जात्ये
बृहत् । वरूथम् । मरुताम् । देवम् । त्रातरम् । अश्विना । मित्रम् । ईमहे । वरुणम् । स्वस्तये
अनेहः । मित्र । अर्यमन् । नृ-वत् । वरुण । शंस्यम् । त्रि-वरूथम् । मरुतः । यन्त । नः । छर्दिः
ये । चित् । हि । मृत्यु-बन्धवः । आदित्याः । मनवः । स्मसि । प्र । सु । नः । आयुः । जीवसे । तिरेतन
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0