ऋग्वेदसंहिता, पदपाठ · अध्याय 7.94
॥16॥.
-र्व्_5:6।17-
(र्व्_7,94)
इयम् । वामस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्य-स्तुतिः । अभ्रात् । वृष्टिः-इव । अजनि
शृणुतम् । जरितुः । हवम् । इन्द्राग्नी इति । वनतम् । गिरः । ईशाना । पिप्यतम् । धियः
मा । पाप-त्वाय । नः । नरा । इन्द्राग्नी इति । मा । अभि-शस्तये । मा । नः । रीरधतम् । निदे
इन्द्रे । अग्ना । नमः । बृहत् । सु-वृक्तिम् । आ । ईरयामहे । धिया । धेनाः । अवस्यवः
ता । हि । शश्वन्तः । ईळते । इत्था । विप्रासः । ऊतये । स-बाधः । वाज-सातये
ता । वाम् । गीः-भिः । विपन्यवः । प्रयस्वन्तः । हवामहे । मेध-साता । सनिष्यवः
॥17॥.
-र्व्_5:6।18-
इन्द्राग्नी इति । अवसा । आ । गतम् । अस्मभ्यम् । चर्षणि-सहा । मा । नः । दुः-शंसः । ईशत
मा । कस्य । नः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य । इन्द्राग्नी इति । शर्म । यच्छतम्
गो--मत् । हिरण्य-वत् । वसु । यत् । वाम् । अश्व-वत् । ईमहे । इन्द्राग्निइति । तत् । वनेमहि
यत् । सोमे । आ । सुते । नरः । इन्द्राग्नी इति । अजोहवुः । सप्ति-वन्ता । सपर्यवः
उक्थेभिः । वृत्र-हन्तमा । या । मन्दाना । चित् । आ । गिरा । आङ्गूषैः । आविवासतः
तौ । इत् । दुः-शंसम् । मर्त्यम् । दुः-विद्वांसम् । रक्षस्विनम् । आभोगम् । हन्मना । हतम् । उद-धिम् । हमना । हतम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0