भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.93

7.93.1

॥14॥.
-र्व्_5:6।15-
(र्व्_7,93)
शुचिम् । नु । स्तोमम् । नव-जातम् । अद्य । इन्द्राग्नी इति । वृत्र-हना । जुषेथाम् । उभा । हि । वाम् । सु-हवा । जोहवीमि । ता । वाजम् । सद्यः । उशते । धेष्ठा

7.93.2

ता । सानसी इति । शवसाना । हि । भूतम् । साकम्-वृधा । शवसा । शूशु-वांसा । क्षयन्तौ । रायः । यवसस्य । भूरेः । पृङ्क्तम् । वाजस्य । स्थविरस्य । घृष्वेः

7.93.3

उपो इति । ह । यत् । विदथम् । वाजिनः । गुः । धीभिः । विप्राः । प्र-मतिम् । इच्छमानाः । अर्वन्तः । न । काष्ठाम् । नक्षमाणाः । इन्द्राग्नी इति । जोहुवतः । नरः । ते

7.93.4

गीः-भिः । विप्रः । प्र-मतिम् । इच्छमानः । ईटे । रयिम् । यशसम् । पूर्व-भाजम् । इन्द्राग्नी इति । वृत्र-हना । सु-वज्रा । प्र । नः । नव्येभिः । तिरतम् । देष्णैः

7.93.5

सम् । यत् । मही इति । मिथती
इति । स्पर्धमानेइति । तनू-रुचा । शूर-साता । यतैते । अदेव-युम् । विदथे । देवयु-भिः । सत्रा । हतम् । सोम-सुता । जनेन

7.93.6

॥15॥.
-र्व्_5:6।16-
इमाम् । ओं इति । सु । सोम-सुतिम् । उप । नः । आ । इन्द्राग्नी
इति । सौमनसाय । यातम् । नु । चित् । हि । परिमम्नाथेइतिपरि-मम्नाथे । अस्मान् । आ । वाम् । शश्वत्-भिः । ववृतीय । वाजैः

7.93.7

सः । अग्ने । एना । नमसा । सम्-इद्धः । अच्छ । मित्रम् । वरुणम् । इन्द्रम् । वोचेः । यत् । सीम् । आगः । चकृम । तत् । सु । मृळ । तत् । अर्यमा । अदितिः । शिश्रथन्तु

7.93.8

एताः । अग्ने । आशुषाणासः । इष्टीः । युवोः । सचा । अभि । अश्याम । वाजान् । मा । इन्द्रः । नः । विष्णुः । मरुतः । परि । ख्यन् । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc