भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.95

7.95.1

॥18॥.
-र्व्_5:6।19-
(र्व्_7,95)
प्र । क्षोदसा । धायसा । सस्रे । एषा । सरस्वती । धरुणम् । आयसी । पूः । प्र-बाबधाना । रथ्याइव । याति । विश्वाः । अपः । महिना । सिन्धुः । अन्याः

7.95.2

एका । अचेतत् । सरस्वती । नदीनाम् । शुचिः । यती । गिरि-भ्यः । आ । समुद्रात् । रायः । चेतन्ती । भुवनस्य । भूरेः । घृतम् । पयः । दुदुहे । नाहुषाय

7.95.3

सः । ववृधे । नर्यः । योषणासु । वृषा । शिशुः । वृषभः । यज्ञियासु । सः । वाजिनम् । मघवत्-भ्यः । दधाति । वि । सातये । तन्वम् । ममृजीत

7.95.4

उत । स्या । नः । सरस्वती । जुषाणा । उप । श्रवत् । सु-भगा । यज्ञे । अस्मिन् । मितज्ञु-भिः । नमस्यैः । इयाना । राया । युजा । चित् । उत्-तरा । सखि-भ्यः

7.95.5

इमा । जुह्वानाः । युष्मत् । आ । नमः-भिः । प्रति । स्तोमम् । सरस्वति । जुषस्व । तव । शर्मन् । प्रिय-तमे । दधानाः । उप । स्थेयाम । शरणम् । न । वृक्षम्

7.95.6

अयम् । ओं इति । ते । सरस्वति । वसिष्ठः । द्वारौ । ऋतस्य । सु-भगे । वि । आवर् इत्य् आवः । वर्ध । शुभ्रे । स्तुवते । रासि । वाजान् । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc