ऋग्वेदसंहिता, पदपाठ · अध्याय 7.92
॥13॥.
-र्व्_5:6।14-
(र्व्_7,92)
आ । वायो इति । भूष । शुचि-पाः । उप । नः । सहस्रम् । ते । नि-युतः । विश्व-वार । उपो इति । ते । अन्धः । मद्यम् । अयामि । यस्य । देव । दधिषे । पूर्व-पेयम्
प्र । सोता । जीरः । अध्वरेषु । अस्थात् । सोमम् । इन्द्राय । वायवे । पिबध्यै । प्र । यत् । वाम् । मध्वः । अग्रियम् । भरन्ति । अध्वर्यवः । देव-यन्तः । शचीभिः
प्र । याभिः । यासि । दाश्वांसम् । अच्छ । नियुत्-भिः । वायो इति । इष्टये । दुरोणे । नि । नः । रयिम् । सु-भोजसम् । युवस्व । नि । वीरम् । गव्यम् । अश्व्यम् । च । राधः
ये । वायवे । इन्द्र-मादनासः । आदेवासः । नि-तोशनासः । अर्यः । घ्नन्तः । वृत्राणि । सूरि-भिः । स्याम । ससह्वांसः । युधा । नृ-भिः । अमित्रान्
आ । नः । नियुत्-भिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । यज्ञम् । वायो इति । अस्मिन् । सवने । मादयस्व । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0