ऋग्वेदसंहिता, पदपाठ · अध्याय 6.16
॥20॥.
-र्व्_4:5।21-
(र्व्_6,16)
त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः । देवेभिः । मानुषे । जने
सः । नः । मन्द्राभिः । अध्वरे । जिह्वाभिः । यज । महः । आ । देवान् । वक्षि । यक्षि । च
वेत्थ । हि । वेधः । अध्वनः । पथः । चे । देव । अञ्जसा । अग्ने । यज्ञेषु । सुक्रतो इतिसु-क्रतो
त्वाम् । ईळे । अध । द्विता । भरतः । वाजि-भिः । शुनम् । ईजे । यज्ञेषु । यज्ञियम्
त्वम् । इमा । वार्या । पुरु । दिवः-दासाय । सुन्वते । भरत्-वाजाय । दाशुषे
॥21॥.
-र्व्_4:5।22-
त्वम् । दूतः । अमर्त्यः । आ । वह । दैव्यम् । जनम् । शृण्वन् । विप्रस्य । सु-स्तुतिम्
त्वाम् । अग्ने । सु-आध्यः । मर्तासः । देव-वीतये । यज्ञेषु । देवम् । ईळते
तव । प्र । यक्षि । सम्-दृशम् । उत । क्रतुम् । सु-दानवः । विश्वे । जुषन्त । कामिनः
त्वम् । होता । मनुः-हितः । वह्निः । आसा । विदुः-तरः । अग्ने । यक्षि । दिवः । विशः
अग्ने । आ । याहि । वीतये । गृणानः । हव्य-दातये । नि । होता । सत्सि । बर्हिषि
॥22॥.
-र्व्_4:5।23-
तम् । त्वा । समित्-भिः । अङ्गिरः । घृतेन । वर्धयामसि । बृहत् । शोच । यविष्ठ्य
सः । नः । पृथु । श्रवाय्यम् । अच्छ । देव । विवाससि । बृहत् । अग्ने । सु-वीर्यम्
त्वाम् । अग्ने । पुष्करात् । अधि । अथर्वा । निः । अमन्थत । मूध्नर्ः । विश्वस्य । वाघतः
तम् । ओं इति । त्वा । दध्यङ् । ऋषिः । पुत्रः । ईधे । अथर्वणः । वृत्र-हनम् । पुरम्-दरम्
तम् । ओं इति । त्वा । पाथ्यः । वृषा । सम् । ईधे । दस्युहन्-तमम् । धनम्-जयम् । रणे--रणे
॥23॥.
-र्व्_4:5।24-
आ । इहि । ओं इति । सु । ब्रवाणि । ते । अग्ने । इत्था । इतराः । गिरः । एभिः । वर्धासे । इन्दु-भिः
यत्र । क्व । च । ते । मनः । दक्षम् । दधसे । उत्-तरम् । तत्र । सदः । कृणवसे
नहि । ते । पूरम् । अक्षि-पत् । भुवत् । नेमानाम् । वसो इति । अथ । दुवः । वनवसे
आ । अग्निः । अगामि । भारतः । वृत्र-हा । पुरु-चेतनः । दिवः-दासस्य । सत्-पतिः
सः । हि । विश्वा । अति । पार्थिवा । रयिम् । दाशत् । महि-त्वना । वन्वन् । अवातः । अस्तृतः
॥24॥.
-र्व्_4:5।25-
सः । प्रत्न-वत् । नवीयसा । अग्ने । द्युम्नेन । सम्-यता । बृहत् । ततन्थ । भानुना
प्र । वः । सखायः । अग्नये । स्तोमम् । यज्ञम् । च । धृष्णु-या । अर्च । गाय । च । वेधसे
सः । हि । यः । मानुषा । युगा । सीदत् । होता । कवि-क्रतुः । दूतः । च । हव्य-वाहनः
ता । राजाना । शुचि-व्रता । आदित्यान् । मारुतम् । गणम् । वसो इति । यक्षि । इह । रोदसी इति
वस्वी । ते । अग्ने । सम्-दृष्टिः । इष-यते । मर्त्याय । ऊर्जः । नपात् । अमृतस्य
॥25॥.
-र्व्_4:5।26-
क्रत्वा । दाः । अस्तु । श्रेष्ठः । अद्य । त्वा । वन्वन् । सु-रेक्णाः । मर्तः । आनाश । सु-वृक्तिम्
ते । ते । अग्ने । त्वाऊताः । इषयन्तः । विश्वम् । आयुः । तरन्तः । अर्यः । अरातीः । वन्वन्तः । अर्यः । अरातीः
अग्निः । तिग्मेन । शोचिषा । यासत् । विश्वम् । नि । अत्रिणम् । अग्निः । नः । वनते । रयिम्
सु-वीरम् । रयिम् । आ । भर । जात-वेदः । वि-चर्षणे । जहि । रक्षांसि । सु-क्रतो इतिसु-क्रतो
त्वम् । नः । पाहि । अंहसः । जात-वेदः । अघ-यतः । । रक्ष । नः । ब्रह्मणः । कवे
॥26॥.
-र्व्_4:5।27-
यः । नः । अग्ने । दुः-एवः । आ । मर्तः । वधाय । दाशति । तस्मात् । नः । पाहि । अंहसः
त्वम् । तम् । देव । जिह्वया । परि । बाधस्व । दुः-क्र्तम् । मर्तः । यः । नः । जिघांसति
भरत्-वाजाय । स-प्रथः । शर्म । यच्छ । सहन्त्य । अग्ने । वरेण्यम् । वसु
अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । सम्-इद्धः । शुक्रः । आहुतः
गर्भे । मातुः । पितुः । पिता । वि-दिद्युतानः । अक्षरे । सीदन् । ऋतस्य । योनिम् । आ
॥27॥.
-र्व्_4:5।28-
ब्रह्म । प्रजावत् । आ । भर । जात-वेदः । वि-चर्षणे । अग्ने । यत् । दीदयत् । द् इवि
उप । त्वा । रण्व-सन्दृशम् । प्रयस्वन्तः । सहः-कृत । अग्ने । ससृज्महे । गिरः
उप । छायाम्-इव । घृणेः । अगन्म । शर्म । ते । वयम् । अग्ने । हिरण्य-सन्दृशः
यः । उग्रः-इव । शर्य-हा । तिग्म-शृङ्गः । न । वंस-गः । अग्ने । पुरः । रुरोजिथ
आ । यम् । हस्ते । न । खादिनम् । शिशुम् । जातम् । न । बिभ्रति । विशाम् । अग्निम् । सु-अध्वरम्
॥28॥.
-र्व्_4:5।29-
प्र । देवम् । देव-वीतये । भरत । वसुवित्-तमम् । आ । स्वे । योनौ । नि । सीदतु
आ । जातम् । जात-वेदसि । प्रियम् । शिशीत । अतिथिम् । स्योने । आ । गृह-पतिम्
अग्ने । युक्ष्व । हि । ये । तव । अश्वासः । देव । साधवः । अरम् । वहन्ति । मन्यवे
अच्छ । नः । याहि । आ । वह । अभि । प्रयांसि । वीतये । आ । देवान् । सोम-पीतये
उउ । अग्ने । भारत । द्यु-मत् । अजस्रेण । दविद्युतत् । शोच । वि । भाहि । अजर
॥29॥.
-र्व्_4:5।30-
वीती । यः । देवम् । मर्तः । दुवस्येत् । अग्निम् । ईळीत । अध्वरे । हविष्मान् । होतारम् । सत्य-यजम् । रोदस्योः । उत्तान-हस्तः । नमसा । विवासेत्
आ । ते । अग्ने । ऋचा । हविः । हृदा । तष्टम् । भरामसि । ते । ते । भवन्तु । उक्षणः । ऋषभासः । वशाः । उत
अग्निम् । देवासः । अग्रियम् । इन्धते । वृत्रहन्-तमम् । येन । वसूनि । आभृता । तृळ्हा । रक्षांसि । वाजिना
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0