ऋग्वेदसंहिता, पदपाठ · अध्याय 6.15
॥16॥.
-र्व्_4:5।17-
(र्व्_6,15)
इमम् । ओं इति । सु । वः । अतिथिम् । उषः-बुधम् । विश्वासाम् । विशाम् । पतिम् । ऋञ्जसे । गिरा । वेत् इ । इत् । दिवः । जनुषा । कत् । चित् । आ । शुचिः । ज्योक् । चित् । अत्ति । गर्भः । यत् । अच्युतम्
मित्रम् । न । यम् । सु-धितम् । भृगवः । दधुः । वनस्पतौ । ईड्यम् । ऊर्ध्व-शोचिषम् । सः । त्वम् । सु-प्रीतः । वीत-हव्ये । अद्भुत । प्रशस्ति-भिः । महयसे । दिवे--दिवे
सः । त्वम् । दकस्य । अवृकः । वृधः । भूः । अर्यः । परस्य । अन्तरस्य । तरुषः । रायः । सूनो इति । सहसः । मर्त्येषु । आ । छर्दिः । यच्छ । वीत-हव्याय । स-प्रथः । भरत्-वाजाय । स-प्रथः
द्युतानम् । वः । अतिथिम् । स्वः-नरम् । अग्निम् । होतारम् । मनुषः । सु-अध्वरम् । विप्रम् । न । द्युक्ष-वचसम् । सुवृक्ति-भिः । हव्य-वाहम् । अरतिम् । देवम् । ऋञ्जसे
पावकया । यः । चितयन्त्या । कृपा । क्षामन् । रुरुचे । उषसः । न । भानुना । तूवर्न् । न । यामन् । एतशस्य । नु । रणे । यः । घृणे । न । ततृषाणः । अजरः
॥17॥.
-र्व्_4:5।18-
अग्निम्-अग्निम् । वः । सम्-इधा । दुवस्यत । प्रियम्-प्रियम् । वः । अतिथिम् । गृणीषणि । उप । वः । गीः-भिः । अमृतम् । विवासत । देवः । देवेषु । वनते । हि । वार्यम् । देवः । देवेषु । वनते । हि । नः । दुवः
सम्-इद्धम् । अग्निम् । सम्-इधा । गिरा । गृणे । शुचिम् । पावकम् । पुरः । अध्वरे । ध्रुवम् । विप्रम् । होतारम् । पुरु-वारम् । अद्रुहम् । कविम् । सुम्नैः । ईमहे । जात-वेदसम्
त्वाम् । दूतम् । अग्ने । अमृतम् । युगे--युगे । हव्य-वाहम् । दधिरे । पायुम् । ईड्यम् । देवासः । च । मर्तासः । च । जागृविम् । वि-भुम् । विश्पतिम् । नमसा । नि । सेदिरे
वि-भूषन् । अग्ने । उभयान् । अनु । व्रता । दूतः । देवानाम् । रजसी इति । सम् । ईयसे । यत् । ते । धीतिम् । सु-मतिम् । आवृणीमहे । अध । स्म । नः । त्रि-वरूथः । शिवः । भव
तम् । सु-प्रतीकम् । सु-दृशम् । सु-अञ्चम् । अविद्वांसः । विदुः-तरम् । सपेम । सः । यक्षत् । विश्वा । वयुनानि । विद्वान् । प्र । हव्यम् । अग्निः । अमृतेषु । वोचत्
॥18॥.
-र्व्_4:5।19-
तम् । अग्ने । पासि । उत । तम् । पिपर्षि । यः । ते । आनट् । कवये । शूर । धीतिम् । यज्ञस्य । वा । नि-शितिम् । वा । उत्-इतिम् । वा । तम् । इत् । पृणक्षि । शवसा । उत । राया
त्वम् । अग्ने । वनुष्यतः । नि । पाहि । त्वम् । ओं इति । नः । सहसावन् । अवद्यात् । सम् । त्वा । ध्वस्मन्-वत् । अभि । एतु । पाथः । सम् । रयिः । स्पृहयाय्यः । सहस्री
अग्निः । होता । गृह-पतिः । सः । राजा । विश्वा । वेद । जनिम । जात-वेदाः । देवानाम् । उत । यः । मर्त्यानाम् । यजिष्ठः । सः । प्र । यजताम् । ऋत-वा
अग्ने । यत् । अद्य । विशः । अध्वरस्य । होतरिति । पावक-शोचे । वेः । त्वम् । हि । यज्वा । ऋता । यजासि । महिना । वि । यत् । भूः । हव्या । वह । यविष्ठ । या । ते । अद्य
अभि । प्रयांसि । सु-धितानि । हि । ख्यः । नि । त्वा । दधीत । रोदसी इति । यजध्यै । अव । नः । मघ-वन् । वाज-सातौ । अग्ने । विश्वानि । दुः-इता । तरेम । ता । तरेम । तव । अवसा । तरेम
॥19॥.
-र्व्_4:5।20-
अग्ने । विश्वेभिः । सु-अनीक । देवैः । ऊर्णावन्तम् । प्रथमः । सीद । योनिम् । कुलायनिम् । घृत-वन्तम् । सवित्रे । यज्ञम् । नय । यजमानाय । साधु
इमम् । ओं इति । त्यम् । अथर्व-वत् । अग्निम् । मन्थन्ति । वेधसः । यम् । अङ्कु-यन्तम् । आ । अनयन् । अमूरम् । स्याव्याभ्यः
जनिष्व । देव-वीतये । सर्व-ताता । स्वस्तये । आ । देवान् । वक्षि । अमृतान् । ऋत-वृधः । यज्ञम् । देवेषु । पिस्पृशः
वयम् । ओं इति । त्वा । गृह-पते । जनानाम् । अग्ने । अकर्म । सम्-इधा । बृहन्तम् । अस्थूरि । नः । गार्हपत्यानि । सन्तु । तिग्मेन । नः । तेजसा । सम् । सिशाधि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0