ऋग्वेदसंहिता, पदपाठ · अध्याय 6.17
॥30॥.
-र्व्_4:6।1-
(र्व्_6,17)
पिब । सोमम् । अभि । यम् । उग्र । तर्दः । ऊर्वम् । गव्यम् । महि । गृणानः । इन्द्र । वि । यः । धृष्णो इति । वधिषः । वज्र-हस्त । विश्वा । वृत्रम् । अमित्रिया । शवः-भिः
सः । ईम् । पाहि । यः । ऋजीषी । तरुत्रः । यः । शिप्र-वान् । वृषभः । यः । मतीनाम् । यः । गोत्र-भित् । वज्र-भृत् । यः । हरि-स्थाः । सः । इन्द्र । चित्रान् । अभि । तृन्धि । वाजान्
एव । पाहि । प्रत्न-था । मन्दतु । त्वा । श्रुधि । ब्रह्म । ववृधस्व । उत । गीः-भिः । आविः । सूर्यम् । कृणुहि । पीपिहीषः । जहि । शत्रून् । अभि । गाः । इन्द्र । तृन्धि
ते । त्वा । मदाः । बृहत् । इन्द्र । स्वधावः । इमे । पीताः । उक्षयन्त । द्यु-मन्तम् । महाम् । अनूनम् । तवसम् । वि-भूतिम् । मत्सरासः । जर्हृषन्त । प्र-साहम्
येभिः । सूर्यम् । उषसम् । मन्दसानः । अवासयः । अप । दृळ्हानि । दर्द्रत् । महाम् । अद्रिम् । परि । गाः । इन्द्र । सन्तम् । नुत्थाः । अच्युतम् । सदसः । परि । स्वात्
॥1॥.
-र्व्_4:6।2-
तव । क्रत्वा । तव । तत् । दंसनाभिः । आमासु । पक्वम् । शच्या । नि । दीधरितिदीधः । और्णोः । दुरः । उस्रियाभ्यः । वि । दृळ्हा । उत् । ऊर्वात् । गाः । असृजः । अङ्गिरस्वान्
पप्राथ । क्षाम् । महि । दंसः । वि । उर्वीम् । उप । द्याम् । ऋष्वः । बृहत् । इन्द्र । स्तभायः । अधारयः । रोदसी इति । देवपुत्रेइतिदेव-पुत्रे । प्रत्ने इति । मातरा । यह्वी इति । ऋतस्य
अध । त्वा । विश्वे । पुरः । इन्द्र । देवाः । एकम् । तवसम् । दधिरे । भराय । अदेवः । यत् । अभि । औहिष्ट । देवान् । स्वः-साता । वृणते । इन्द्रम् । अत्र
अध । द्यौः । चित् । ते । अप । सा । नु । वज्रात् । द्विता । अनमत् । भियसा । स्वस्य । मन्योः । अहिम् । यत् । इन्द्रः । अभि । ओहसानम् । नि । चित् । विश्व-आयुः । शयथे । जघान
अध । त्वष्टा । ते । महः । उग्र । वज्रम् । सहस्र-भृष्टिम् । ववृतत् । शत-अश्रिम् । नि-कामम् । अर-मनसम् । येन । नवन्तम् । अहिम् । सम् । पिणक् । ऋजीषिन्
॥2॥.
-र्व्_4:6।3-
वर्धान् । यम् । विश्वे । मरुतः । स-जोषाः । पचत् । शतम् । महिषान् । इन्द्र । तुभ्यम् । पूषा । विष्णुः । त्रीणि । सरांसि । धावन् । वृत्र-हनम् । मदिरम् । अंशुम् । अस्मै
आ । क्षोदः । महि । वृतम् । नदीनाम् । परि-स्थितम् । असृजः । ऊर्मिम् । अपाम् । तासाम् । अनु । प्र-वतः । इन्द्र । पन्थाम् । प्र । आर्दयः । नीचीः । अपसः । समुद्रम्
एव । ता । विश्वा । चकृ-वांसम् । इन्द्रम् । महाम् । उग्रम् । अजुर्यम् । सहः-दाम् । सु-वीरम् । त्वा । सु-आयुधम् । सु-वज्रम् । आ । ब्रह्म । नव्यम् । अवसे । ववृत्यात्
सः । नः । वाजाय । श्रवसे । इषे । च । राये । धेहि । द्यु-मतः । इन्द्र । विप्रान् । भरत्-वाजे । नृ-वतः । इन्द्र । सूरीन् । दिवि । च । स्म । एधि । पार्ये । नः । इन्द्र
अया । वाजम् । देव-हितम् । सनेम । मदेम । शत-हिमाः । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0