ऋग्वेदसंहिता, पदपाठ · अध्याय 5.54
॥13॥.
-र्व्_4:3।14-
(र्व्_5,54)
प्र । शर्धाय । मारुताय । स्व-भानवः । इमाम् । वाचम् । अनज । पर्वत-च्युते । घर्म-स्तुभे । दिवः । आ । पृष्ठ-यज्वने । द्युम्न-श्रवसे । महि । नृम्णम् । अर्चत
प्र । वः । मरुतः । तविषाः । उदन्यवः । वयः-वृधः । अश्व-युजः । परि-ज्रयः । सम् । वि-द्युता । दधति । वाशति । त्रितः । स्वरन्ति । आपः । अवना । परि-ज्रयः
विद्युत्-महसः । नरः । अश्म-दिद्यवः । वात-त्विषः । मरुतः । पर्वत-च्युतः । अब्द-या । चित् । मुहुः । आ । ह्रादुनि-वृतः । स्तनयत्-अमाः । रभसाः । उत्-ओजसः
वि । अक्तून् । रुद्राः । वि । अहानि । शिक्वसः । वि । अन्तरिक्षम् । वि । रजांसि । धूतयः । वि । यत् । अज्रान् । अजथ । नावः । ईम् । यथा । वि । दुः-गानि । मरुतः । न । अह । रिष्यथ
तत् । वीर्यम् । वः । मरुतः । महि-त्वनम् । दीर्घम् । ततान । सूर्यः । न । योजनम् । एताः । न । यामे । अगृभीत-शोचिषः । अनश्व-दाम् । यत् । नि । अयातन । गिरि म्
॥14॥.
-र्व्_4:3।15-
अभ्राजि । शर्धः । मरुतः । यत् । अर्णसम् । मोषथ । वृक्षम् । कपनाइव । वेधसः । अध । स्म । नः । अरमतिम् । स-जोषसः । चक्षुः-इव । यन्तम् । अनु । नेषथ । सु-गम्
न । सः । जीयते । मरुतः । न । हन्यते । न । स्रेधति । न । व्यथते । न । रिष्य्त् । न । अस्य । रायः । उप । दस्यन्ति । न । ऊतयः । र्षिम् । वा । यम् । राजानम् । वा । सुसूदथ
नियुत्वन्तः । ग्राम-जितः । यथा । नरः । अर्यमणः । न । मरुतः । कवन्धिनः । पिन्वन्ति । उत्सम् । यत् । इनासः । अस्वरन् । वि । उन्दन्ति । पृथिवीम् । मध्वः । अन्धसा
प्रवत्वती । इयम् । पृथिवी । मरुत्-भ्यः । प्रवत्वती । द्यौः । भवति । प्रयत्-भ्यः । प्रवत्वतीः । पथ्याः । अन्तरिक्ष्याः । प्रवत्वन्तः । पर्वताः । जीर-दानवः
यत् । मरुतः । स-भरसः । स्वः-नरः । सूर्ये । उत्-इते । मदथ । दिवः । नरः । न । वः । अश्वाः । श्रथयन्त । अह । सिस्रतः । सद्यः । अस्य । अध्वनः । पारम् । अश्नुथ
॥15॥.
-र्व्_4:3।16-
अंसेषु । वः । ऋष्टयः । पत्-सु । खादयः । वक्षः-सु । रुक्माः । मरुतः । रथे । शुभः । अग्नि-भ्राजसः । वि-द्युतः । गभस्त्योः । शिप्राः । शीऋष-सु । वि-तताः । हिरण्ययीः
तम् । नाकम् । अर्यः । अगृभीत-शोचिषम् । रुशत् । पिप्पलम् । मरुतः । वि । धूनुथ । सम् । अच्यन्त । वृजना । अतित्विषन्त । यत् । स्वरन्ति । घोषम् । वि-ततम् । ऋत-यवः
युष्मादत्तस्य । मरुतः । वि-चेतसः । रायः । स्याम । रथ्यः । वयस्वतः । न । यः । युच्छति । तिष्यः । यथा । दिवः । अस्मे इति । रोरन्त । मरुतः । सहस्रिणम्
यूयम् । रयिम् । मरुतः । स्पार्ह-वीरम् । यूयम् । ऋषिम् । अवथ । साम-विप्रम् । यूयम् । अर्वन्तम् । भरताय । वाजम् । यूयम् । धत्थ । राजानम् । श्रुष्टि-मन्तम्
तत् । वः । यामि । द्रविणम् । सद्यः-ऊतयः । येन । स्वः । न । ततनाम । नॄन् । अभि । इदम् । सु । मे । मरुतः । हर्यत । वचः । यस्य । तरेम । शतम् । हिमाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0