भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.55

5.55.1

॥16॥.
-र्व्_4:3।17-
(र्व्_5,55)
प्र-यज्यवः । मरुतः । भ्राजत्-ऋष्टयः । बृहत् । वयः । दधिरे । रुक्म-वक्षसः । ईयन्ते । अश्वैः । सु-यमेभिः । आशु-भिः । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.2

स्वयम् । दधिध्वे । तविषीम् । यथा । विद । बृहत् । महान्तः । उर्विया । वि । राजथ । उत । अन्तरिक्षम् । ममिरे । वि । ओजसा । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.3

साकम् । जाताः । सु-भ्वः । साकम् । उक्षिताः । श्रिये । चित् । आ । प्र-तरम् । ववृधुः । नरः । वि-रोकिणः । सूर्यस्य-इव । रश्मयः । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.4

आभूषेण्यम् । वः । मरुतः । महि-त्वनम् । दिदृक्षेण्यम् । सूर्यस्य-इव । चक्षणम् । उतो इति । अस्मान् । अमृत-त्वे । दधातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.5

उत् । ईरयथ । मरुतः । समुद्रतः । यूयम् । वृष्टिम् । वर्षयथ । पुरीषिणः । न । वः । दस्रा । उप । दस्यन्ति । धेनवः । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.6

॥17॥.
-र्व्_4:3।18-
यत् । अश्वान् । धूः-सु । पृषतीः । अयुग्ध्वम् । हिरण्ययान् । प्रति । अत्कान् । अमुग्ध्वम् । विश्वाः । इत् । स्पृधः । मरुतः । वि । अस्यथ । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.7

न । पर्वताः । न । नद्यः । वरन्त । वः । यत्र । अचिध्वम् । मरुतः । गच्छथ । इत् । ओं
इति । तत् । उत । द्यावापृथिवी इति । याथन । परि । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.8

यत् । पूर्व्यम् । मरुतः । यत् । च । नूतनम् । यत् । उद्यते । वसवः । यत् । च । शस्यते । विश्वस्य । तस्य । भवथ । नवेदसः । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.9

मृळत । नः । मरुतः । मा । वधिष्टन । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्तन । अधि । स्तोत्रस्य । सख्यस्य । गातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत

5.55.10

यूयम् । अस्मान् । नयत । वस्यः । अच्छ । निः । अंहति-भ्यः । मरुतः । गृणानाः । जुषध्वम् । नः । हव्य-दातिम् । यजत्राः । वयम् । स्याम । पतयः । रयीणाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc