भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.53

5.53.1

॥10॥.
-र्व्_4:3।11-
(र्व्_5,53)
कः । वेद । जानम् । एषाम् । कः । वा । पुरा । सुम्नेषु । आस । मरुताम् । यत् । युयुज्रे । क् इलास्यः

5.53.2

आ । एतान् । रथेषु । तस्थुषः । कः । शुश्राव । कथा । ययुः । कस्मै । सस्रुः । सु-दासे । अनु । आपयः । इळाभिः । वृष्टयः । सह

5.53.3

ते । मे । आहुः । ये । आययुः । उप । द्यु-भिः । वि-भिः । मदे । नरः । मर्याः । अरेपसः । इमान् । पश्यन् । इति । स्तुहि

5.53.4

ये । अञ्जिषु । ये । वाशीषु । स्व-भानवः । स्रक्षु । रुक्मेषु । खादिषु । श्रायाः । रथेषु । धन्व-सु

5.53.5

युष्माकम् । स्म । रथान् । अनु । मुदे । दधे । मरुतः । जीर-दानवः । वृष्टी । द्यावः । यतीः-इव

5.53.6

॥11॥.
-र्व्_4:3।12-
आ । यम् । नरः । सु-दानवः । ददाशुषे । दिवः । कोशम् । अचुच्यवुः । वि । पर्जन्यम् । सृजन्तिःरोदसी इतिःअनुःधन्वनाःयन्तिःवृष्टयः

5.53.7

ततृदानाः । सिन्धवः । क्षोदसा । रजः । प्र । सस्रुः । धेनवः । यथा । स्यन्नाः । अश्वाः-इव । अध्वनः । वि-मोचने । वि । यत् । वर्तन्ते । एन्यः

5.53.8

आ । यात । मरुतः । दिवः । आ । अन्तरिक्षात् । अमात् । उत । मा । अव । स्थात । परावतः

5.53.9

मा । वः । रसा । अनितभा । कुभा । क्रुमुः । मा । वः । सिन्धुः । नि । रीरमत् । मा । वः । परि । स्थात् । सरयुः । पुरीषिणी । अस्मे
इति । इत् । सुम्नम् । अस्तु । वः

5.53.10

तम् । वः । शर्धम् । रथानाम् । त्वेषम् । गणम् । मारुतम् । नव्यसीनाम् । अनु । प्र । यन्ति । वृष्टयः

5.53.11

॥12॥.
-र्व्_4:3।13-
शर्धम्-शर्धम् । वः । एषाम् । व्रातम्-व्रातम् । गणम्-गणम् । सुशस्ति-भिः । अनु । क्रामेम । धीति-भिः

5.53.12

कस्मै । अद्य । सु-जाताय । रात-हव्याय । प्र । ययुः । एना । यामेन । मरुतः

5.53.13

येन । तोकाय । तनयाय । धान्यम् । बीजम् । वहध्वे । अक्षितम् । अस्मभ्यम् । तत् । धत्तन । यत् । वः । ईमहे । राधः । विश्व-आयु । सौभगम्

5.53.14

अति । इयाम । निदः । तिरः । स्वस्ति-भिः । हित्वा । अवद्यम् । अरातीः । वृष्टवी । सम् । योः । आपः । उस्रि । भेषजम् । स्याम । मरुतः । सह

5.53.15

सु-देवः । समह । असति । सु-वीरः । नरः । मरुतः । सः । मर्त्यः । यम् । त्रायध्वे । स्याम । ते

5.53.16

स्तुहि । भोजान् । स्तुवतः । अस्य । यामनि । रणम् । गावः । न । यवसे । यतः । पूर्वान्-इव । सखीन् । अनु । ह्वय । गिरा । गृणीहि । कामिनः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc