ऋग्वेदसंहिता, पदपाठ · अध्याय 3.59
॥4॥.
-र्व्_3:4।5-
(र्व्_3,59)
मित्रः । जनान् । यातयति । ब्रुवाणः । मित्रः । दाधार । पृथिवीम् । उत । द्याम् । मित्रः । कृष्टीः । अनिमिषा । अभि । चष्टे । मित्राय । हव्यम् । घृत-वत् । जुहोत
प्र । सः । मित्र । मर्तः । अस्तु । प्रयस्वान् । यः । ते । आदित्य । शिक्षति । व्रतेन । न । हन्यते । न । जीयते । त्वाऊतः । न । एनम् । अंहः । अश्नोति । अन्तितः । न । दूरात्
अनमीवासः । इळया । मदन्तः । मित-ज्ञवः । वरिमन् । आ । पृथिव्याः । आदित्यस्य । व्रतम् । उप-क्षियन्तः । वयम् । मित्रस्य । सु-मतौ । स्याम
अयम् । मित्रः । नमस्यः । सु-शेवः । राजा । सु-क्षत्रः । अजनिष्ट । वेधाः । तस्य । वयम् । सु-मतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम
महान् । आदित्यः । नमसा । उप-सद्यः । यातयत्-जनः । गृणते । सु-शेवः । तस्मै । एतत् । पन्य-तमाय । जुष्टम् । अग्नौ । मित्राय । हविः । आ । जुहोत
॥5॥.
-र्व्_3:4।6-
मित्रस्य । चर्षणि-धृतः । अवः । देवस्य । सानसि । द्युम्नम् । चित्रश्रवः-तमम्
अभि । यः । महिना । दिवम् । मित्रः । बभूव । स-प्रथाः । अभि । श्रवः-भिः । पृथिवीम्
मित्राय । पञ्च । येमिरे । जनाः । अभिष्टि-शवसे । सः । देवान् । विश्वान् । बिभर्ति
मित्रः । देवेषु । आयुषु । जनाय । वृक्त-बर्हिषे । इषः । इष्ट-व्रताः । अकर् इत्य् अकः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0