भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.60

3.60.1

॥6॥.
-र्व्_3:4।7-
(र्व्_3,60)
इह-इह । वः । मनसा । बन्धुता । नरः । उशिजः । जग्मुः । अभि । तानि । वेदसा । याभिः । मायाभिः । प्रतिजूति-वर्पसः । सौधन्वनाः । यज्ञियम् । भगम् । आनश

3.60.2

याभिः । शचीभिः । चमसाम् । अपिंशत । यया । धिया । गाम् । अरिणीत । चर्मणः । येन । हरी इति । मनसा । निः-अतक्षत । तेन । देव-त्वम् । ऋभवः । सम् । आनश

3.60.3

इन्द्रस्य । सख्यम् । ऋभवः । सम् । आनशुः । मनोः । नपातः । अपसः । दधन्विरे । सौधन्वनासः । अमृत-त्वम् । आ । ईरिरे । विष्टवी । शमीभिः । सु-कृतः । सु-कृत्यया

3.60.4

इन्द्रेण । याथ । स-रथम् । सुते । सचा । अथो इति । वशानाम् । भवथ । सह । श्रिया । न । वः । प्रति-मै । सु-कृतानि । वाघतः । सौधन्वनाः । ऋभवः । वीर्याणि च

3.60.5

इन्द्र । ऋभु-भिः । वाजवत्-भिः । सम्-उक्षितम् । सुतम् । सोमम् । आ । वृषस्व । गभस्त्योः । धिया । इषितः । मघवन् । दाशुषः । गृहे । सौधन्वनेभिः । सह । मत्स्व । नृ-भिः

3.60.6

इन्द्र । ऋभु-मान् । वाज-वान् । मत्स्व । इह । नः । अस्मिन् । सवने । शच्या । पुरु-स्तुत । इमानि । तुभ्यम् । स्वसराणि । येमिरे । व्रता । देवानाम् । मनुषः । च । धर्म-भिः

3.60.7

इन्द्र । ऋभु-भिः । वाजि-भिः । वाजयन् । इह । स्तोमम् । जरितुः । उप । याहि । यज्ञि यम् । शतम् । केतेभिः । इषिरेभिः । आयवे । सहस्र-नीथः । अध्वरस्य । होमनि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc