ऋग्वेदसंहिता, पदपाठ · अध्याय 3.58
॥2॥.
-र्व्_3:4।3-
(र्व्_3,58)
धेनुः । प्रत्नस्य । काम्यम् । दुहाना । अन्तरिति । पुत्रः । चरति । दक्षिणायाः । आ । द्योतनिम् । वहति । शुभ्र-यामा । उषसः । स्तोमः । अश्विनौ । अजीगरिति
सु-युक् । वहन्ति । प्रति । वाम् । ऋतेन । ऊर्ध्वा । भवन्ति । पितराइव । मेधाः । जरेथाम् । अस्मत् । वि । पणेः । मनीषाम् । युवोः । अवः । चकृम । आ । यातम् । अर्वाक्
सुयुक्-भिः । अश्वैः । सु-वृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः । किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराजाः
आ । मन्येथाम् । आ । गतम् । कत् । चित् । एवैः । विश्वे । जनासः । अश्विना । हवन्ते । इमा । हि । वाम् । गो--ऋजीका । मधूनि । प्र । मित्रासः । न । ददुः । उस्रः । अग्रे
तिरः । पुरु । चित् । अश्विना । रजांसि । आङ्गूषः । वाम् । मघ-वाना । जनेषु । आ । इह । यातम् । पथि-भिः । देव-यानैः । दस्रौ । इमे । वाम् । नि-धयः । मधूनाम्
॥3॥.
-र्व्_3:4।4-
पुराणम् । ओकः । सख्यम् । शिवम् । वाम् । युवोः । नरा । द्रविणम् । जह्नाव्याम् । पुनरिति । कृण्वानाः । सख्या । शिवानि । मध्वा । मदेम । सह । नु । समानाः
अश्विना । वायुना । युवम् । सु-दक्षा । नियुत्-भिः । च । स-जोषसा । युवाना । नासत्या । तिरः-अह्न्यम् । जुषाणा । सोमम् । पिबतम् । अस्रिधा । सुदानूइतिसु-दानू
अश्विना । परि । वाम् । इषः । पुरूचीः । ईयुः । गीः-भिः । यतमानाः । अमृध्राः । रथः । ह । वाम् । ऋत-जाः । अद्रि-जूतः । परि । द्यावापृथिवी इति । याति । सद्यः
अश्विना । मधुसुत्-तमः । युवाकुः । सोमः । तम् । पातम् । आ । गतम् । दुरोणे । रथः । ह । वाम् । भूरि । वर्पः । करिक्रत् । सुत-वतः । निः-कृतम् । आगमिष्ठः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0