ऋग्वेदसंहिता, पदपाठ · अध्याय 10.90
॥16॥.
-र्व्_8:4।17-
(र्व्_10,90)
सहस्र-शीर्षा । पुरुषः । सहस्र-अक्षः । सहस्र-पात् । सः । भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दश-अङ्गुलम्
पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भव्यम् । उत । अमृत-त्वस्य । ईशानः । यत् । अन्नेन । अति-रोहति
एतावान् । अस्य । महिमा । अतः । ज्यायान् । च । पुरुषः । पादः । अस्य । विश्वा । भूतानि । त्रि-पात् । अस्य । अमृतम् । दिवि
त्रि-पात् । ऊर्ध्व । उत् । ऐत् । पुरुषः । पादः । अस्य । इह । अभवत् । पुनरिति । ततः । विष्वङ् । वि । अक्रामत् । साशनानशने इति । अभि
तस्मात् । विराट् । अजायत । वि-राजः । अधि । पुरुषः । सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः
॥17॥.
-र्व्_8:4।18-
यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत । वसन्तः । अस्य । आसीत् । आज्यम् । ग्रीष्मः । इद्मः । शरत् । हविः
तम् । यज्ञम् । बर्हिषि । प्र । औक्षन् । पुरुषम् । जातम् । अग्रतः । तेन । देवाः । अयजन्त । साध्याः । ऋषयः । च । ये
तस्मात् । यज्ञात् । सर्व-हुतः । सम्-भृतम् । पृषत्-आज्यम् । पशून् । तान् । चक्रे । वायव्यान् । आरण्यान् । ग्राम्याः । च । ये
तस्मात् । यज्ञात् । सर्व-हुतः । ऋचः । सामानि । जज्ञिरे । छन्दांसि । जज्ञिरे । तस्मात् । यजुः । तस्मात् । अजायत
तस्मात् । अश्वाः । अजायन्त । ये । के । च । उभयादतः । गावः । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अजावयः
॥18॥.
-र्व्_8:4।19-
यत् । पुरुषम् । वि । अदधुः । कतिधा । वि । अकल्पयन् । मुखम् । किम् । अस्य । कौ । बाहू इति । कौ । ऊरू इति । पादौ । उच्येतेइति
ब्राह्मणः । अस्य । मुखम् । आसीत् बाहू इति । राजन्यः । कृतः । ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्-भ्याम् । शूद्रः । अजायत
चन्द्रमा । मनसः । जातः । चक्षोः । सूर्यः । अजायत । मुखात् । इन्द्रः । च । अग्नि ः । च । प्राणात् । वायुः । अजायत
नाभ्याः । आसीत् । अन्तरिक्षम् । शीर्ष्णः । द्यौः । सम् । अवर्तत । पत्-भ्याम् । भूमिः । दिशः । श्रोत्रात् । तथा । लोकान् । अकल्पयन्
सप्त । अस्य । आसन् । परि-धयः । त्रिः । सप्त । सम्-इधः । कृताः । देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन् । पुरुषम् । पशुम्
यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् । ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0