भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.91

10.91.1

॥19॥.
-र्व्_8:4।20-
(र्व्_10,91)
सम् । जागृवत्-भिः । जरमाणः । इद्यते । दमे । दमूनाः । इषयन् । इळः । पदे । व् इश्वस्य । होता । हविषः । वरेण्यः । वि-भुः । विभावा । सु-सखा । सखि-यते

10.91.2

सः । दर्शत-श्रीः । अतिथिः । गृहे--गृहे । वने--वने । शिश्रिये । तक्ववीः-इव । जनम्-जनम् । जन्यः । न । अति । मन्यते । विशः । आ । क्षेति । विश्यः । विशम्-विशम्

10.91.3

सु-दक्षः । दक्षः । क्रतुना । असि । सु-क्रतुः । अग्ने । कविः । काव्येन । असि । विश्व-वित् । वसुः । वसूनाम् । क्षयसि । त्वम् । एकः । इत् । द्यावा । च । यानि । पृथिवी इति । च । पुष्यतः

10.91.4

प्र-जानन् । अग्ने । तव । योनिम् । ऋत्वियम् । इळायाः । पदे । घृत-वन्तम् । आ । असदः । आ । ते । चिकित्रे । उषसाम्-इव । एतयः । अरेपसः । सूर्यस्य-इव । रश्मयः

10.91.5

तव । श्रियः । वर्ष्यस्य-इव । वि-द्युतः । चित्राः । चिकित्रे । उषसाम् । न । केतवः । यत् । ओषधीः । अभि-सृष्टः । वनानि । च । परि । स्वयम् । चिनुषे । अन्नम् । आस्ये

10.91.6

॥20॥.
-र्व्_8:4।21-
तम् । ओषधीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः । तम् । इत् । समानम् । वनिनः । च । वीरुधः । अन्तः-वतीः । च । सुवते । च । विश्वहा

10.91.7

वात-उपधूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । व्-तिष्ठसे । आ । ते । यतन्ते । रथ्याः । यथा । पृथक् । शर्धांसि । अग्ने । अजराणि । धक्षतः

10.91.8

मेधाकारम् । विदथस्य । प्र-साधनम् । अग्निम् । होतारम् । परि-भूतमम् । मतिम् । तम् । इत् । अर्भे । हविषि । आ । समानम् । इत् । तम् । इत् । महे । वृणते । न । अन्यम् । त्वत्

10.91.9

त्वाम् । इत् । अत्र । वृणते । त्वायवः । होतारम् । अग्ने । विदथेषु । वेधसः । यत् । देव-यन्तः । दधति । प्रयांसि । ते । हविष्मन्तः । मनवः । वृक्त-बर्ह् इषः

10.91.10

तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्निद् । ऋत-यतः । तव । प्र-शास्त्रम् । त्वम् । अध्वरि-यसि । ब्रह्मा । च । असि । गृह-पतिः । च । नः । दमे

10.91.11

॥21॥.
-र्व्_8:4।22-
यः । तुभ्यम् । अग्ने । अमृताय । मर्त्यः । सम्-इधा । दाशत् । उत । वा । हविः-कृति । तस्य । होता । भवसि । यासि । दूत्यम् । उप । ब्रूषे । यजसि । अध्वरि-यसि

10.91.12

इमाः । अस्मै । मतयः । वाचः । अस्मत् । आ । ऋचः । गिरः । सु-स्तुतयः । सम् । अग्मत । वसु-यवः । वसवे । जात-वेदः । वृद्धासु । चित् । वर्धनः । यासु । चाकनत्

10.91.13

इमाम् । प्रत्नाय । सु-स्तुतिम् । नवीयसीम् । वोचेयम् । अस्मै । उशते । शृणोतु । नः । भूयाः । अन्तरा । हृदि । अस्य । नि-स्पृशे । जायाइव । पत्ये । उशती । सु-वासाः

10.91.14

यस्मिन् । अश्वासः । ऋषभासः । उक्षणः । वशाः । मेषाः । अव-सृष्टासः । आहुताः । कीलाल-पे । सोम-पृष्ठाय । वेधसे । हृदा । मतिम् । जनये । चारुम् । अग्नये

10.91.15

अहावि । अग्ने । हविः । आस्ये । ते । स्रुचि-इव । घृतम् । चम्वि-इव । सोमः । वाज-सनिम् । रयिम् । अस्मे इति । सु-वीरम् । प्र-शस्तम् । धेहि । यशसम् । बृहन्तम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc