भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.89

10.89.1

॥13॥.
-र्व्_8:4।14-
(र्व्_10,89)
इन्द्रम् । स्तव । नृ-तमम् । यस्य । मह्ना । वि-बबाधे । रोचना । वि । ज्मः । अन्तान् । आ । यः । पप्रौ । चर्षणि-धृत् । वरः-भिः । प्र । सिन्धु-भ्यः । रिरिचानः । महि-त्वा

10.89.2

सः । सूर्यः । परि । उरु । वरांसि । आ । इन्द्रः । ववृत्यात् । रथ्याइव । चक्रा । अतिष्ठन्तम् । अपस्यम् । न । सर्गम् । कृष्णा । तमांसि । त्विष्या । जघान

10.89.3

समानम् । अस्मै । अनप-वृत् । अर्च । क्ष्मया । दिवः । असमम् । ब्रह्म । नव्यम् । वि । यः । पृष्ठाइव । जनिमानि । अर्यः । इन्द्रः । चिकाय । न । सखायम् । ईषे

10.89.4

इन्द्राय । गिरः । अनिशित-सर्गाः । अपः । प्र । ईरयम् । सगरस्य । बुध्नात् । यः । अक्षेण-इव । चक्रिया । शचीभिः । विष्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम्

10.89.5

आपान्त-मन्युः । तृपल-प्रभर्मा । धुनिः । शिमी-वान् । शरु-मान् । ऋजीषी । सोमः । विश्वानि । अतसा । वनानि । न । अर्वाक् । इन्द्रम् । प्रति-मानानि । देभुः

10.89.6

॥14॥.
-र्व्_8:4।15-
न । यस्य । द्यावापृथिवी इति । न । धन्व । न । अन्तरिक्षम् । न । अद्रयः । सोमः । अक्षारिति । यत् । अस्य । मन्युः । अधि-नीयमानः । शृणाति । वीळु । रुजति । स्थिराणि

10.89.7

जघान । वृत्रम् । स्व-धितिः । वनाइव । रुरोज । पुरः । अरदत् । न । सिन्धून् । बिभेद । गिरिम् । नवम् । इत् । न । कुम्भम् । आ । गाः । इन्द्रः । अकृणुत । स्वयुक्-भिः

10.89.8

त्वम् । ह । त्यत् । ऋण-याः । इन्द्र । धीरः । असिः । न । पर्व । वृजिना । शृणासि । प्र । ये । मित्रस्य । वरुणस्य । धाम । युजम् । न । जनाः । मिनन्ति । मित्रम्

10.89.9

प्र । ये । मित्रम् । प्र । अर्यमणम् । दुः-एवाः । प्र । सम्-गिरः । प्र । वरुणम् । मिनन्ति । नि । अमित्रेषु । वधम् । इन्द्र । तुम्रम् । वृषन् । वृषाणम् । अरुषम् । शिशीहि

10.89.10

इन्द्रः । दिवः । इन्द्रः । ईशे । पृथिव्याः । इन्द्रः । अपाम् । इन्द्रः । इत् । पर्वतानाम् । इन्द्रः । वृधाम् । इन्द्रः । इत् । मेधिराणाम् । इन्द्रः । क्षेमे । योगे । हव्यः । इन्द्रः

10.89.11

॥15॥.
-र्व्_8:4।16-
प्र । अक्तु-भ्यः । इन्द्रः । प्र । वृधः । अह-भ्यः । प्र । अन्तरिक्षात् । प्र । समुद्रस्य । धासेः । प्र । वातस्य । प्रथसः । प्र । ज्मः । अन्तात् । प्र । सिन्धु-भ्यः । रिरिचे । प्र । क्षिति-भ्यः

10.89.12

प्र । शोशुचत्याः । उषसः । न । केतुः । असिन्वा । ते । वर्तताम् । इन्द्र । हेतिः । अश्माइव । विध्य । दिवः । आ । सृजानः । तपिष्ठेन । हेषसा । द्रोघ-मित्रान्

10.89.13

अनु । अह । मासाः । अनु । इत् । वनानि । अनु । ओषधीः । अनु । पर्वतासः । अनु । इन्द्रम् । रोदसी इति । वावशाने इति । अनु । आपः । अजिहत । जायमानम्

10.89.14

कर्हि । स्वित् । सा । ते । इन्द्र । चेत्या । असत् । अघस्य । यत् । भिनदः । रक्षः । आईषत् । मित्र-क्रुवः । यत् । शसने । न । गावः । पृथिव्याः । आपृक् । अमुया । शयन्ते

10.89.15

शत्रु-यन्तः । अभि । ये । नः । ततस्रे । महि । व्राधन्तः । ओगणासः । इन्द्र । अन्धेन । अमित्राः । तमसा । सचन्ताम् । सु-ज्योतिषः । अक्तवः । तान् । अभि । स्युरि तिस्युः

10.89.16

पुरूणि । हि । त्वा । सवना । जनानाम् । ब्रह्माणि । मन्दन् । गृणताम् । ऋषीणाम् । इमाम् । आघोषन् । अवसा । स-हूतिम् । तिरः । विश्वान् । अर्चतः । याहि । अर्वाङ्

10.89.17

एव । ते । वयम् । इन्द्र । भुञ्जतीनाम् । विद्याम । सु-मतीनाम् । नवानाम् । विद्याम । वस्तोः । अवसा । गृणन्तः । विश्वामित्राः । उत । ते । इन्द्र । नूनम्

10.89.18

शुनम् । हुवेम । मघ-वानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc