भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.85

10.85.1

॥19॥.
-र्व्_8:3।20-
(र्व्_10,85)
सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः । ऋतेन । आदित्याः । तिष्ठन्ति । द् इवि । सोमः । अधि । श्रितः

10.85.2

सोमेन । आदित्याः । बलिनः । सोमेन । पृथिवी । मही । अथो इति । नक्षत्राणाम् । एषाम् । उप-स्थे । सोमः । आहितः

10.85.3

सोमम् । मन्यते । पपि-वान् । यत् । सम्-पिंषन्ति । ओषधिम् । सोमम् । यम् । ब्रह्माणः । विदुः । न । तस्य । अश्नाति । कः । चन

10.85.4

आच्छत्-विधानैः । गुपितः । बार्हतैः । सोम । रक्षितः । ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिवः

10.85.5

यत् । त्वा । देव । प्र-पिबन्ति । ततः । आ । प्यायसे । पुनरिति । वायुः । सोमस्य । रक्षिता । समानाम् । मासः । आकृतिः

10.85.6

॥20॥.
-र्व्_8:3।21-
रैभी । आसीत् । अनु-देयी । नाराशंसी । नि-ओचनी । सूर्यायाः । भद्रम् । इत् । वासः । गाथया । एति । परि-कृतम्

10.85.7

चित्तिः । आः । उप-बर्हणम् । चक्षुः । आः । अभि-अञ्जनम् । द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम्

10.85.8

स्तोमाः । आसन् । प्रति-धयः । कुरीरम् । छन्दः । ओपशः । सूर्यायाः । अश्विना । वरा । अग्निः । आसीत् । पुरः-गवः

10.85.9

सोमः । वधू-युः । अभवत् । अश्विना । आस्ताम् । उभा । वरा । सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात्

10.85.10

मनः । अस्याः । अनः । आसीत् । द्यौः । आसीत् । उत । छदिः । शुक्रौ । अनडवढबदबद्रह्णाहौ । आस्ताम् । यत् । अयात् । सूर्या । गृहम्

10.85.11

॥21॥.
-र्व्_8:3।22-
ऋक्-सामाभ्याम् । अभि-हितौ । गावौ । ते । सामनौ । इतः । श्रोत्रम् । ते । चक्रे इति । आस्ताम् । दिवि । पन्थाः । चराचरः

10.85.12

शुची । ते । चक्रे इति । यात्याः । वि-आनः । अक्षः । आहतः । अनः । मनस्मयम् । सूर्या । आ । अरोहत् । प्र-यती । पतिम्

10.85.13

सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अव-असृजत् । अघासु । हन्यन्ते । गावः । अर्जुन्योः । परि । उह्यते

10.85.14

यत् । अश्विना । पृच्छमानौ । अयातम् । त्रि-चक्रेण । वहतुम् । सूर्यायाः । विश्वे । देवाः । अनु । तत् । वाम् । अजानन् । पुत्रः । पितरौ । अवृणीत । पूषा

10.85.15

यत् । अयातम् । शुभः । पती इति । वरे--यम् । सूर्याम् । उप । क्व । एकम् । चक्रम् । वाम् । आसीत् । क्व । देष्ट्राय । तस्थथुः

10.85.16

॥22॥.
-र्व्_8:3।23-
द्वे इति । ते । चक्रे इति । सूर्ये । ब्रह्माणः । ऋतु-था । विदुः । अथ । एकम् । चक्रम् । यत् । गुहा । तत् । अद्धातयः । इत् । विदुः

10.85.17

सूर्यायै । देवेभ्यः । मित्राय । वरुणाय । च । ये । भूतस्य । प्र-चेतसः । इदम् । तेभ्यः । अकरम् । नमः

10.85.18

पूर्व-अपरम् । चरतः । मायया । एतौ । शिशूइति । क्रीळन्तौ । परि । यातः । अध्वरम् । विश्वानि । अन्यः । भुवना । अभि-चष्टे । ऋतून् । अन्यः । वि-दधत् । जायते । पुनरिति

10.85.19

नवः-नवः । भवति । जायमानः । अह्नाम् । केतुः । उषसाम् । एति । अग्रम् । भागम् । देवेभ्यः । वि । दधाति । आयन् । प्र । चन्द्रमाः । तिरते । दीर्घम् । आयुः

10.85.20

सु-किंशुकम् । शल्मलिम् । विश्व-रूपम् । हिरण्य-वर्णम् । सु-वृतम् । सु-चक्रम् । आ । रोह । सूर्ये । अमृतस्य । लोकम् । स्योनम् । पत्ये । वहतुम् । कृणुष्व

10.85.21

॥23॥.
-र्व्_8:3।24-
उत् । ईर्ष्व । अतः । पति-वती । हि । एषा । विश्व-वसुम् । नमसा । गीः-भिः । ईळे । अन्याम् । इच्छ । पितृ-सदम् । वि-अक्ताम् । सः । ते । भागः । जनुषा । तस्य । विद्धि

10.85.22

उत् । ईर्ष्व । अतः । विश्ववसो इतिविश्व-वसो । नमसा । ईळामहे । त्वा । अन्याम् । इच्छ । प्र-फर्व्यम् । सम् । जायाम् । पत्या । सृज

10.85.23

अनृक्षराः । ऋजवः । सन्तु । पन्थाः । येभिः । सखायः । यन्ति । नः । वरे--यम् । सम् । अर्यमा । सम् । भगः । नः । निनीयात् । सम् । जाः-पत्यम् । सु-यमम् । अस्तु । देवाः

10.85.24

प्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सु-शेवः । ऋतस्य । योनौ । सु-कृतस्य । लोके । अरिष्टाम् । त्वा । सह । पत्या । दधामि

10.85.25

प्र । इतः । मुञ्चामि । न । अमुतः । सु-बद्धाम् । अमुतः । करम् । यथा । इयम् । इन्द्र । मीढवः । सु-पुत्रा । सु-भगा । असति

10.85.26

॥24॥.
-र्व्_8:3।25-
पूषा । त्वा । इतः । नयतु । हस्त-गृह्य । अश्विना । त्वा । प्र । वहताम् । रथेन । गृहान् । गच्छ । गृह-पत्नी । यथा । असः । वशिनी । त्वम् । विदथम् । आ । वदासि

10.85.27

इह । प्रियम् । प्र-जया । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्ह-पत्याय । जागृहि । एना । पत्या । तन्वम् । सम् । सृजस्व । अध । जिव्री इति । विदथम् । आ । वदाथः

10.85.28

नील-लोहितम् । भवति । कृत्या । आसक्तिः । व्यज्यते । एधन्ते । अस्याः । ज्ञातयः । पतिः । बन्धेषु । बध्यते

10.85.29

परा । देहि । शामुल्यम् । ब्रह्म-भ्यः । वि । भज । वसु । कृत्या । एषा । पत्-वती । भूत्वी । आ । जाया । विशते । पतिम्

10.85.30

अश्रीरा । तनूः । भवति । रुशती । पापया । अमुया । पतिः । यत् । वध्वः । वाससा । स्वम् । अङ्गम् । अभि-धित्सते

10.85.31

॥25॥.
-र्व्_8:3।26-
ये । वध्वः । चन्द्रम् । वहतुम् । यक्ष्माः । यन्ति । जनात् । अनु । पुनरिति । तान् । यज्ञियाः । देवाः । नयन्तु । यतः । आगताः

10.85.32

मा । विदन् । परि-पन्थिनः । ये । आसीत् । अन्ति । दम्पती इतिदम्-पती । सु-गेभिः । दुः-गम् । अति । इताम् । अप । द्रान्तु । अरातयः

10.85.33

सु-मङ्गलीः । इयम् । वधूः । इमाम् । सम्-एत । पश्यत । सौभाग्यम् । अस्यै । दत्त्वाय । अथ । अस्तम् । वि । परा । इतन

10.85.34

तृष्टम् । एतत् । कटुकम् । एतत् । अपाष्ठ-वत् । विष-वत् । न । एतत् । अत्तवे । सूर्याम् । यः । ब्रह्मा । विद्यात् । सः । इत् । वाधू-यम् । अर्हति

10.85.35

आशसनम् । वि-शसनम् । अथो इति । अधि-विकर्तनम् । सूर्यायाः । पश्य । रूपाणि । तानि । ब्रह्मा । तु । शुन्धति

10.85.36

॥26॥.
-र्व्_8:3।27-
गृभ्णामि । ते । सौभग-त्वाय । हस्तम् । मया । पत्या । जरत्-अष्टिः । यथा । असः । भगः । अर्यमा । सविता । पुरम्-धिः । मह्यम् । त्वा । अदुः । गार्ह-पत्याय । देवाः

10.85.37

ताम् । पूषन् । शिव-तमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्याः । वपन्ति । या । नः । ऊरू इति । उशती । वि-श्रयाते । यस्याम् । उशन्तः । प्र-हरामःशेपम्

10.85.38

तुभ्यम् । अग्रे । परि । अवहन् । सूर्याम् । वहतुना । सह । पुनरिति । पति-भ्यः । जायाम् । दाः । अग्ने । प्र-जया । सह

10.85.39

पुनरिति । पत्नीम् । अग्निः । अदात् । आयुषा । सह । वर्चसा । दीर्घ-आयुः । अस्याः । यः । पतिः । जीवाति । शरदः । शतम्

10.85.40

सोमः । प्रथमः । विविदे । गन्धर्वः । विविदे । उत्-तरः । तृतीयः । अग्निः । ते । पतिः । तुरीयः । ते । मनुष्य-जाः

10.85.41

॥27॥.
-र्व्_8:3।28-
सोमः । ददत् । गन्धर्वाय । गन्धर्वः । ददत् । अग्नये । रयिम् । च । पुत्रान् । च । अदात् । अग्निः । मह्यम् । अथो इति । इमाम्

10.85.42

इह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयुः । वि । अश्नुतम् । क्रीळन्तौ । पुत्रैः । नप्तृ-भिः । मोदमानौ । स्वे । गृहे

10.85.43

आ । नः । प्र-जाम् । जनयतु । प्रजापतिः । आजरसाय । सम् । अनक्तु । अर्यमा । अदुः-मङ्गलीः । पति-लोकम् । आ । विश । शम् । नः । भव । द्वि-पदे । शम् । चतुः-पदे

10.85.44

अघोर-चक्षुः । अपति-घ्नी । एधि । शिवा । पशु-भ्यः । सु-मनाः । सु-वर्चाः । वीर-सूः । देव-कामा । स्योना । शम् । नः । भव । द्वि-पदे । शम् । चतुः-पदे

10.85.45

इमाम् । त्वम् । इन्द्र । मीढवः । सु-पुत्राम् । सु-भगाम् । कृणु । दश । अस्याम् । पुत्रान् । आ । धेहि । पतिम् । एकादशम् । कृधि

10.85.46

सम्-राज्ञी । श्वशुरे । भव । सम्-राज्ञी । श्वश्र्वाम् । भव । ननान्दरि । सम्-राज्ञी । भव । सम्-राज्ञी । अधि । देवृषु

10.85.47

सम् । अञ्जन्तु । विश्वे । देवाः । सम् । आपः । हृदयानि । नौ । सम् । मातरिश्वा । सम् । धाता । सम् । ओं इति । देष्ट्री । दधातु । नौ

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc