भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.84

10.84.1

॥18॥.
-र्व्_8:3।19-
(र्व्_10,84)
त्वया । मन्यो इति । स-रथम् । आरुजन्तः । हर्षमानासः । धृषिताः । मरुत्वः । तिग्म-इषवः । आयुधा । सम्-शिशानाः । अभि । प्र । यन्तु । नरः । अग्नि-रूपाः

10.84.2

अग्निः-इव । मन्यो इति । त्विषितः । सहस्व । सेनानीः । नः । सहुरे । हूतः । एधि । हत्वाय । शत्रून् । वि । भजस्व । वेदः । ओजः । मिमानः । वि । मृधः । नुदस्व

10.84.3

सहस्व । मन्यो इति । अभि-मातिम् । अस्मे इति । रुजन् । मृणन् । प्र-मृणन् । प्र । इहि । शत्रून् । उग्रम् । ते । पाजः । ननु । आ । रुरुध्रे । वशी । वशम् । नयसे । एक-ज । त्वम्

10.84.4

एकः । बहूनाम् । असि । मन्यो इति । ईळितः । विशम्-विशम् । युधये । सम् । शिशाधि । अकृत्त-रुक् । त्वया । युजा । वयम् । द्यु-मन्तम् । घोषम् । वि-जयाय । कृण्महे

10.84.5

विजेष-कृत् । इन्द्रः-इव । अनव-ब्रवः । अस्माकम् । मन्यो इति । अधि-पाः । भव । इह । प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यतः । आबभूथ

10.84.6

आभूत्या । सह-जाः । वज्र । सायक । सहः । बिभर्षि । अभि-भूते । उत्-तरम् । क्रत्वा । नः । मन्यो इति । सह । मेदी । एधि । महाधनस्य । पुरु-हूत । सम्-सृजि

10.84.7

सम्-सृष्टम् । धनम् । उभयम् । सम्-आकृतम् । अस्मभ्यम् । दत्ताम् । वरुणः । च । मन्युः । भियम् । दधानाः । हृदयेषु । शत्रवः । पराजितासः । अप । नि । लयन्ताम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc