ऋग्वेदसंहिता, पदपाठ · अध्याय 10.86
॥28॥.
-र्व्_8:4।1-
(र्व्_10,86)
वि । हि । सोतोः । असृक्षत । न । इन्द्रम् । देवम् । अमंसत । यत्र । अमदत् । वृषाकपिः । अर्यः । पुष्टेषु । मत्-सखा । विश्वस्मात् । इन्द्रः । उत्-तरः
परा । हि । इन्द्र । धावसि वृषाकपेः । अति । व्यथिः । नः । अह । प्र । विन्दसि । अन्यत्र । सोम-पीतये । विश्वस्मात् । इन्द्रः । उत्-तरः
किम् । अयम् । त्वाम् । वृषाकपिः । चकार । हरितः । मृगः । यस्मै । इरस्यसि । इत् । ओं इति । नु । अर्यः । वा । पुष्टि-मत् । वसु । विश्वस्मात् । इन्द्रः । उत्-तरः
यम् । इमम् । त्वम् । वृषाकपिम् । प्रियम् । इन्द्र । अभि-रकसि । श्वा । नु । अस्य । जम्भिषत् । अपि । कर्णे । वराह-युः । विश्वस्मात् । इन्द्रः । उत्-तरः
प्रिया । तष्टानि । मे । कपिः । वि-अक्ता । वि । अदूदुषत् । शिरः । नु । अस्य । राविषम् । न । सु-गम् । दुः-कृते । भुवम् । विश्वस्मात् । इन्द्रः । उत्-तरः
॥1॥.
-र्व्_8:4।2-
न । मत् । स्त्री । सुभसत्-तरा । न । सुयाशु-तरा । भुवत् । न । मत् । प्रति-च्यवीयसी । न । सक्थि । उत्-यमीयसी । विश्वस्मात् । इन्द्रः । उत्-तरः
सुवे । अम्ब । सुलाभिके । यथाइव । अङ्ग । भविष्यति । भसत् । मे । अम्ब । सक्थि । मे । शिरः । मे । वि-इव । हृष्यति । विश्वस्मात् । इन्द्रः । उत्-तरः
किम् । सुबाहो इतिसु-बाहो । सु-अङ्गुरे । पृथुस्तो इतिपृथु-स्तो । पृथु-जघने । किम् । शूर-पत्नि । नः । त्वम् । अभि । अमीषि । वृषाकपिम् । विश्वस्मात् । इन्द्रः । उत्-तरः
अवीराम्-इव । माम् । अयम् । शरारुः । अभि । मन्यते । उत । अहम् । अस्मि । वीरिणी । इन्द्र-पत्नी । मरुत्-सखा । विश्वस्मात् । इन्द्रः । उत्-तरः
सम्-होत्रम् । स्म । पुरा । नारी । समनम् । वा । अव । गच्छति । वेधाः । ऋतस्य । वीरिणी । इन्द्र-पत्नी । महीयते । विश्वस्मात् । इन्द्रः । उत्-तरः
॥2॥.
-र्व्_8:4।3-
इन्द्राणीम् । आसु । नारिषु । सु-भगाम् । अहम् । अश्रवम् । नहि । अस्याः । अपरम् । चन । जरसा । मरते । पतिः । विश्वस्मात् । इन्द्रः । उत्-तरः
न । अहम् । इन्द्राणि । ररण । सख्युः । वृषाकपेः । ऋते । यस्य । इदम् । अप्यम् । हविः । प्रियम् । देवेषु । गच्छति । विश्वस्मात् । इन्द्रः । उत्-तरः
वृषाकपायि । रेवति । सु-पुत्रे । आत् । ओं इति । सु-स्नुषे । घसत् । ते । इन्द्रः । उक्षणः । प्रियम् । काचित्-करम् । हविः । वि श्वस्मात् । इन्द्रः । उत्-तरः
उक्ष्णः । हि । मे । पञ्च-दश । साकम् । पचन्ति । विंशतिम् । उत । अहम् । अद्मि । पीवः । इत् । उभा । कुक्षी इति । पृणन्ति । मे । विश्वस्मात् । इन्द्रः । उत्-तरः
वृषभः । न । तिग्म-शृङ्गः । अन्तः । यूथेषु । रोरुवत् । मन्थः । ते । इन्द्र । शम् । हृदे । यम् । ते । सुनोति । भावयुः । विश्वस्मात् । इन्द्रः । उत्-तरः
॥3॥.
-र्व्_8:4।4-
न । सः । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् । सः । इत् । ईशे । यस्य । रोमशम् । नि-सेदुषः । वि-जृम्भते । विश्वस्मात् । इन्द्रः । उत्-तरः
न । सः । ईशे । यस्य । रोमशम् । नि-सेदुषः । वि-जृम्भते । सः । इत् । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् । विश्वस्मात् । इन्द्रः । उत्-तरः
अयम् । इन्द्र । वृषाकपिः । परस्वन्तम् हतम् । विदत् । असिम् । सूनाम् । नवम् । चरुम् । आत् । एधस्य । अनः । आचितम् । विश्वस्मात् । इन्द्रः । उत्-तरः
अयम् । एमि । वि-चाकशत् । वि-चिन्वन् । दासम् । आर्यम् । पिबामि । पाक-सुत्वनः । अभि । धीरम् । अचाकशम् । विश्वस्मात् । इन्द्रः । उत्-तरः
धन्व । च । यत् । कृन्तत्रम् । च । कति । स्वित् । ता । वि । योजना । नेदीयसः । वृषाकपे । अस्तम् । आ । इहि । गृहान् । उप । विश्वस्मात् । इन्द्रः । उत्-तरः
पुनः । आ । इहि । वृषाकपे । सुविता । कल्पयावहै । यः । एषः । स्वप्न-नंशनः । अस्तम् । एषि । पथा । पुनः । विश्वस्मात् । इन्द्रः । उत्-तरः
यत् । उदञ्चः । वृषाकपे । गृहम् । इन्द्र । अजगन्तन । क्व । स्यः । पुल्वघः । मृगः । कम् । अगन् । जन-योपनः । विश्वस्मात् । इन्द्रः । उत्-तरः
पशुः । ह । नाम । मानवी । साकम् । ससूव । विंशतिम् । भद्रम् । भल । त्यस्यै । अभूत् । यस्याः । उदरम् । आमयत् । विश्वस्मात् । इन्द्रः । उत्-तरः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0