ऋग्वेदसंहिता, पदपाठ · अध्याय 1.31
॥31॥.
-र्व्_1:2।32-
(र्व्_1,31)
त्वम् । अग्ने । प्रथमाः । अङ्गिरा । ऋषिः । देवः । देवानाम् । अभवः । शिवः । सखा । तव । व्रते । कवयः । विद्मनाअपसः । अजायन्त । मरुतः । भ्राजत्-ऋष्टयः
त्वम् । अग्ने । प्रथमः । अङ्गिरः-तमः । कविः । देवानाम् । परि । भूषसि । व्रतम् । वि-भुः । विश्वस्मै । भुवनाय । मेधिरः । द्वि-माता । शयुः । कतिधा । चित् । आयवे
त्वम् । अग्ने । प्रथमः । मातरिश्वने । आविः । भव । सुक्रतू-या । विवस्वते । अरेजेताम् । रोदसी इति । होतृ-वूर्ये । असघ्नोः । भारम् । अयजः । महः । वसो इति
त्वम् । अग्ने । मनवे । द्याम् । अवाशयः । पुरूरवसे । सु-कृते । सुकृत्-तरः । श्वात्रेण । यत् । पित्रोः । मुच्यसे । परि । आ । त्वा । पूर्वम् । अनयन् । आ । अपरम् । पुनरिति
त्वम् । अग्ने । वृषभः । पुष्टि-वर्धनः । उद्यत-स्रुचे । भवसि । श्रवाय्यः । यः । आहुतिम् । परि । वेद । वषट्-कृतिम् । एक-आयुः । अग्ने । विशः । आविवाससि
॥32॥.
-र्व्_1:2।33-
त्वम् । अग्ने । वृजिन-वर्तनिम् । नरम् । सक्मन् । पिपर्षि । विदथे । वि-चर्षणे । यः । शूर-साता । परि-तक्म्ये । धने । दभ्रेभिः । चित् । सम्-ऋता । हंसि । भूयसः
त्वम् । तम् । अग्ने । अमृत-त्वे । उत्-तमे । मर्तम् । दधासि । श्रवसे । दिवे--दिवे । यः । ततृषाणः । उभयाय । जन्मने । मयः । कृणोषि । प्रयः । आ । च । सूरये
त्वम् । नः । अग्ने । सनये । धनानाम् । यशसम् । कारुम् । कृणुहि । स्तवानः । ऋध्याम । कर्म । अपसा । नवेन । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः
त्वम् । नः । अग्ने । पित्रोः । उप-स्थे । आ । देवः । देवेषु । अनवद्य । जागृविः । तनू-कृत् । बोधि । प्र-मतिः । च । कारवे । त्वम् । कल्याण । वसु । विश्वम् । आ । ऊपिषे
त्वम् । अग्ने । प्र-मतिः । त्वम् । पिता । असि । नः । त्वम् । वयः-कृत् । तवजामयः । वयम् । सम् । त्वा । रायः । शतिनः । सम् । सहस्रिणः । सुवीरम् । यन्ति । व्रत-पाम् । अदाभ्य
॥33॥.
-र्व्_1:2।34-
त्वाम् । अग्ने । प्रथमम् । आयुम् । आयवे । देवाः । अकृण्वन् । नहुषस्य । विश्पतिम् । इळाम् । अकृण्वन् । मनुषस्य । शासनीम् । पितुः । यत् । पुत्रः । ममकस्य । जायते
त्वम् । नः । अग्ने । तव । देव । पायु-भिः । मघोनः । रक्ष । तन्वः । च । वन्द्य । त्राता । तोकस्य । तनये । गवाम् । असि । अनि-मेषम् । रक्षमाणः । तव । व्रते
त्वम् । अग्ने । यज्यवे । पायुः । अन्तरः । अनिषङ्गाय । चतुः-अक्षः । इध्यसे । यः । रात-हव्यः । अवृकाय । धायसे । कीरेः । चित् । मन्त्रम् । मनसा । वनोषि । तम्
त्वम् । अग्ने । उरु-शंसाय । वाघते । स्पार्हम् । यत् । रेक्णः । परमम् । वनोषि । तत् । आध्रस्य । चित् । प्र-मतिः । उच्यसे । पिता । प्र । पाकम् । शास्सि । प्र । दिशः । विदुः-टरः
त्वम् । अग्ने । प्रयत-दक्षिणम् । नरम् । वर्म-इव । स्यूतम् । परि । पासि । विश्वतः । स्वादु-क्षद्मा । यः । वसतौ । स्योन-कृत् । जीव-याजम् । यजते । सः । उप-मा । दिवः
॥34॥.
-र्व्_1:2।35-
इमाम् । अग्ने । शरणिम् । मीमृषः । नः । इमम् । अध्वानम् । यम् । अगाम । दूरात् । आपिः । पिता । प्र-मतिः । सोम्यानाम् । भृमिः । असि । ऋषि-कृत् । मर्त्यानाम्
मनुष्वत् । अग्ने । अङ्गिरस्वत् । अङ्गिरः । ययाति-वत् । सदने । पूर्व-वत् । शुचे । अच्छ । याहि । आ । वह । दैव्यम् । जनम् । आ । सादय । बर्हिषि । यक्षि । च । प्रियम्
एतेन । अग्ने । ब्रह्मणा । ववृधस्व । शक्ती । वा । यत् । ते । चकृम । विदा । वा । उत । प्र । नेषि । अभि । वस्यः । अस्मान् । सम् । नः । सृज । सु-मत्या । वाज-वत्या
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0