भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.30

1.30.1

॥27॥.
-र्व्_1:2।28-
(र्व्_1,30)
आ । वः । इन्द्रम् । क्रिविम् । यथा । वाज-यन्तः । शत-क्रतुम् । मंहिष्ठंसिञ्चे । इन्दु-भिः

1.30.2

शतम् । वा । यः । शुचीनाम् । सहस्रम् । वा । सम्-आशिराम् । आ । इत् । ओं इति । निम्नम् । न । रीयते

1.30.3

सम् । यत् । मदाय । शुष्मिणे । एना । हि । अस्य । उदरे । समुद्रः । न । व्यचः । दधे

1.30.4

अयम् । ओं इति । ते । सम् । अतसि । कपोतः-इव । गर्भ-धिम् । वचः । तत् । चित् । नः । ओहसे

1.30.5

स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते । वि-भूतिः । अस्तु । सुनृता

1.30.6

॥28॥.
-र्व्_1:2।29-
ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो इतिशत-क्रतो । सम् । अन्येषु । ब्रवावहै

1.30.7

योगे--योगे । तवः-तरम् । वाजे--वाजे । हवामहे । सखायः । इन्द्रम् । ऊतये

1.30.8

आ । घ । गमत् । यदि । श्रवत् । सहस्रिणीभिः । ऊति-भिः । वाजेभिः । उप । नः । हवम्

1.30.9

अनु । प्रत्नस्य । ओकसः । हुवे । तुवि-प्रतिम् । नरम् । यम् । ते । पूर्वम् । पिता । हुवे

1.30.10

तम् । त्वा । वयम् । विश्व-वार । आ । शास्महे । पुरु-हूत । सखे । वसो इति । जरितृ-भ्यः

1.30.11

॥29॥.
-र्व्_1:2।30-
अस्माकम् । शिप्रिणीनाम् । सोम-पाः । सोम-पाव्नाम् । सखे । वज्रिन् । सखीनाम्

1.30.12

तथा । तत् । अस्तु । सोम-पाः । सखे । वज्रिन् । तथा । कृणु । यथा । ते । उश्मसि । इष्टये

1.30.13

रेवतीः । नः । सध-मादे । इन्द्रे । सन्तु । तुवि-वाजाः । क्षु-मन्तः । याभिः । मदेम

1.30.14

आ । घ । त्वावान् । त्मना । आप्तः । स्तोतृ-भ्यः । धृष्णो इति । इयानः । ऋणोः । अक्षम् । न । चक्र्योः

1.30.15

आ । यत् । दुवः । शतक्रतो इतिशत-क्रतो । आ । कामम् । जरितॄणाम् । ऋणोः । अक्षम् । न । शचीभिः

1.30.16

॥30॥.
-र्व्_1:2।31-
शश्वत् । इन्द्रः । पोप्रुथत्-भिः । जगाय । नानदत्-भिः । शाश्वसत्-भिः । धनानि । सः । नः । हिरण्य-रथम् । दंसनावान् । सः । नः । सनिता । सनये । सः । नः । अदात्

1.30.17

आ । अश्विनौ । अश्व-वत्या । इषा । यातम् । शवीरया । गो--मत् । दस्रा । हिरण्य-वत्

1.30.18

समान-योजनः । हि । वाम् । रथः । दस्रौ । अमर्त्यः । समुद्रे । अश्विना । ईयते

1.30.19

नि । अघ्न्यस्य । मूर्धनि । चक्रम् । रथस्य । येमथुः । परि । द्याम् । अन्यत् । ईयते

1.30.20

कः । ते । उषः । कध-प्रिये । भुजे । मर्तः । अमर्त्ये । कम् । नक्षसे । विभा-वरि

1.30.21

वयम् । हि । ते । अमन्महि । आ । अन्तात् । आ । पराकात् । अश्वे । न । चित्रे । अरुषि

1.30.22

त्वम् । त्येभिः । आ । गहि । वाजेभिः । दुहितः । दिवः । अस्मे इति । रयिम् । नि । धारय

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc