भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.32

1.32.1

॥35॥.
-र्व्_1:2।36-
(र्व्_1,32)
इन्द्रस्य । नु । वीर्याणि । प्र । वोचम् । यानि । चकार । प्रथमानि । वज्री । अहन् । अहिम् । अनु । अपः । ततर्द । प्र । वक्षणाआः । अभिनत् । पर्वतानाम्

1.32.2

अहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष । वाश्राः-इव । धेनवः । स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः

1.32.3

वृष-यमाणः । अवृणीत । सोमम् । त्रि-कद्रुकेषु । अपिबत् । सुतस्य । आ । सायकम् । मघवा । अदत्त । वज्रम् । अहन् । एनम् । प्रथम-जाम् । अहीनाम्

1.32.4

यत् । इन्द्र । अहन् । प्रथम-जाम् । अहीनाम् । आत् । मायिनाम् । अमिनाः । प्र । उत । मायाः । आत् । सूर्यम् । जनयन् । द्याम् । उषासम् । तादीत्ना । शत्रुम् । न । किला । विवित्से

1.32.5

अहन् । वृत्रम् । वृत्र-तरम् । वि-अंसम् । इन्द्रः । वज्रेण । महता । वधेन । स्कन्धांसि-इव । कुलिशेन । वि-वृक्णा । अहिः । शयते । उप-पृक् । पृथिव्याः

1.32.6

॥36॥.
-र्व्_1:2।37-
अयोद्धाइव । दुः-मदः । आ । हि । जुह्वे । महावीरम् । तुवि-बाधम् । ऋजीषम् । न । तारीत् । अस्य । सम्-ऋतिम् । वधानाम् । सम् । रुजानाः । पिपिषे । इन्द्र-शत्रुः

1.32.7

अपात् । अहस्तः । अपृतन्यत् । इन्द्रम् । आ । अस्य । वज्रम् । अधि । सानौ । जघान । वृष्णः । वध्रिः । प्रति-मानम् । बुभूषन् । पुरु-त्रा । वृत्रः । अशयत् । वि-अस्तः

1.32.8

नदम् । न । भिन्नम् । अमुया । शयानम् । मनः । रुहाणाः । अति । यन्ति । आपः । याः । चित् । वृत्रः । महिना । परि-अतिष्ठत् । तासाम् । अहिः । पत्सुतःशीः । बभूव

1.32.9

नीचावयाः । अभवत् । वृत्र-पुत्रा । इन्द्रः । अस्याः । अव । वधः । जभार । उत्-तरा । सूः । अधरः । पुत्रः । आसीत् । दानुः । शये । सह-वत्सा । न । धेनुः

1.32.10

अतिष्ठन्तीनाम् । अनि-वेशनानान् । काष्ठानाम् । मध्ये । नि-हितम् । शरीरम् । वृत्रस्य । निण्यम् । वि । चरन्ति । आपः । दीर्घम् । तमः । आ । अशयत् । इन्द्र-शत्रुः

1.32.11

॥37॥.
-र्व्_1:2।38-
दास-पत्नीः । अहि-गोपाः । अतिष्ठन् । नि-रुद्धाः । आपः । पणिनाइव । गावः । अपाम् । बिलम् । अपि-हितम् । यत् । आसीत् । वृत्रम् । जघन्वान् । अप । तत् । ववार

1.32.12

अश्व्यः । वारः । अभवः । तत् । इन्द्र । सृके । यत् । त्वा । प्रति-अहन् । देवः । एकः । अजयः । गाः । अजयः । शूर । सोमम् । अव । असृजः । सर्तवे । सप्त । सिन्धून्

1.32.13

न । अस्मै । विद्युत् । न । तन्यतुः । सिसेध । न । याम् । मिहम् । अकिरत् । ह्रादुनिम् । च । इन्द्रः । च । यत् । युयुधातेइति । अहिः । च । उत । अपरीभ्यः । मघ-वा । वि । जिग्ये

1.32.14

अहेः । यातारम् । कम् । अपश्यः । इन्द्र । हृदि । यत् । ते । जघ्नुषः । भीः । अगच्छत् । नव । च । यम् । नवतिम् । च । स्रवन्तीः । श्येनः । न । भीतः । अतरः । रजांसि

1.32.15

इन्द्रः । यातः । अव-सितस्य । राजा । शमस्य । च । शृङ्गिणः । वज्र-बाहुः । सः । इत् । ओं इति । राजा । क्षयति । चर्षणीनाम् । अरान् । न । नेमिः । परि । ता । बभूव

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc