भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 95

95.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्नवतितमो ऽध्यायः ॥
र्क्व् अध्याय 95
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र बदर्याश्रममुत्तमम् ।
सर्वतीर्थवरं पुण्यं कथितं शंभुना पुरा

95.2

यश्चैष भारतस्यार्थे तत्र सिद्धः किरीटभृत् ।
भ्राता ते फाल्गुनो नाम विद्ध्येनं नरदैवतम्

95.3

नरनारायणौ द्वौ तावागतौ नर्मदातटे ।
ज्ञानं तस्यैव यो राजन्भक्तिमान्वै जनार्दने

95.4

समं पश्यति सर्वेषु स्थावरेषु चरेषु च ।
ब्राह्मणं श्वपचं चैव तत्र प्रीतो जनार्दनः

95.5

ऐकात्म्यं पश्य कौन्तेय मयि चात्मनि नान्तरम् ।
नरनारायणाभ्यां हि कृतं बदरिकाश्रमम्

95.6

स्थापितः शङ्करस्तत्र लोकानुग्रहकारणात् ।
त्रिमूर्तिस्थापितं लिङ्गं स्वर्गमार्गानुमुक्तिदम्

95.7

तत्र गत्वा शुचिर्भूत्वा ह्येकरात्रोपवासकृत् ।
रजस्तमस् तथा त्यक्त्वा सात्त्विकं भावमाश्रयेत्

95.8

रात्रौ जागरणं कृत्वा मधुमासाष्टमीदिने ।
अथवा च चतुर्दश्याम् उभौ पक्षौ च कारयेत्

95.9

आश्विनस्य विशेषेण कथितं तव पाण्डव ।
स्नापयेत् परया भक्त्या क्षीरेण मधुना सह

95.10

दध्ना शर्करया युक्तं घृतेन समलंकृतम् ।
पञ्चामृतम् इदं पुण्यं स्नापयेद् वृषभध्वजम्

95.11

स्नाप्यमानं शिवं भक्त्या वीक्षते यो विमत्सरः ।
तस्य वासः शिवोपान्ते शक्रलोके न संशयः

95.12

शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणिने ।
संसारमूलबद्धानामुद्वेष्टनकरो हि यः

95.13

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनौं नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः

95.14

यः पुनः स्नापयेद् भक्त्या एकभक्तो जितेन्द्रियः ।
तस्यापि यत्फलं पार्थ वक्ष्ये तल्लेशतस्तव

95.15

पीडितो वृद्धभावेन तव भक्त्या वदाम्यहम् ।
ते यान्ति परमं स्थानं भित्त्वा भास्करमण्डलम्

95.16

संसारे सर्वसौख्यानां निलयास्ते भवन्ति च ।
आश्चर्यं ज्ञातिवर्गाणां धर्माणां निलयास्तु ते

95.17

सम्पन्नाः सर्वकामैस्ते पृथिव्यां पृथिवीपते ।
श्राद्धं तत्रैव यः कुर्यान्नर्मदोदकमिश्रितम्

95.18

योग्यैश्च ब्राह्मणैर् राजन्कुलीनैर्वेदपारगैः ।
सुरूपैश्च सुशीलैश्च स्वदारनिरतैः शुभैः

95.19

आर्यदेशप्रसूतैश्च श्लक्ष्णैश्चैव सुरूपिभिः ।
कारयेत्पिण्डदानं वै भास्करे कुतपस्थिते

95.20

पित्ःणां परमं लोकं यदीच्छेद्धर्मनन्दन ।
वर्जयेत्तान्प्रयत्नेन काणान्दुष्टांश्च दाम्भिकान्

95.21

तस्मात्सर्वप्रयत्नेन योग्यं विप्रं समाश्रयेत् ।
नरकान्मोचयेत्प्रेतान्कुम्भीपाकपुरोगमान्

95.22

मोक्षो भवति सर्वेषां पित्ःणां नृपनन्दन ।
विप्रेभ्यः काञ्चनं दद्यात्प्रीयतां मे पितामहः

95.23

अन्नं च दापयेत्तत्र भक्त्या वस्त्रं च भारत ।
गां वृषं मेदिनीं दद्याच्छत्रं शस्तं नृपोत्तम

95.24

स पुमान्स्वर्गमाप्नोति इत्येवं शङ्करो ऽब्रवीत् ।
प्राणत्यागं तु यः कुर्याच्छिखिना सलिलेन वा

95.25

अनाशकेन वा भूयः स गच्छेच्छिवमन्दिरम् ।
नरनारायणीतीरे देवद्रोण्यां च यो नृप

95.26

स वसेदीश्वरस्याग्रे यावद् इन्द्राश्चतुर्दश ।
पुनः स्वर्गाच्च्युतः सो ऽपि राजा भवति वीर्यवान्

95.27

सर्वैश्वर्यगुणैर्युक्तः प्रजापालनतत्परः ।
ततः स्मरति तत्तीर्थं पुनरेवागमिष्यति

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc