रेवाखाण्ड (संशोधित पाठ) · अध्याय 91
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे जलशायितीर्थमाहात्म्यवर्णनं नाम नवतितमो ऽध्यायः ॥
र्क्व् अध्याय 91
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपाल तीर्थपरमपावनम् ।
चण्डादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः
आस्तां पुरा महादैत्यौ चण्डमुण्डौ सुदारुणौ ।
नर्मदातीरमाश्रित्य चेरतुर् विपुलं तपः
ध्यायन्तौ भास्करं देवं तमोनाशं जगत्त्रये ।
तुष्टस्तत्तपसा देवः सहस्रांशुरुवाच ह
साधु साध्विति तौ पार्थ नर्मदायाः शुभे तटे ।
वरं प्रार्थयतं वीरौ यथेष्टं चेतसेच्छितम्
चण्डमुण्डावूचतुः ।
अजेयौ सर्वदेवानां भूयास्वावां समाहितौ ।
सर्वरोगैः परित्यक्तौ सर्वकालं दिवाकर
एवमस्त्विति तौ प्राह भास्करो वारितस्करः ।
इत्युक्त्वान्तर्दधे भानुर्दैत्याभ्यां तत्र भास्करः
स्थापितः परया भक्त्या तं गच्छेदात्मसिद्धये ।
गीर्वाणांश्च मनुष्यांश्च पित्ःंस् तत्रापि तर्पयेत्
स वसेद् भास्करे लोके विरिञ्चिदिवसं नृप ।
घृतेन बोधयेद्दीपं षष्ठ्यां स च नरेश्वर ।
मुच्यते सर्वपापैस्तु प्रतियाति पुरं रवेः
उत्पत्तिं चण्डभानोर्यः शृणोति भरतर्षभ ।
विजयी स सदा नूनमाधिव्याधिविवर्जितः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0