रेवाखाण्ड (संशोधित पाठ) · अध्याय 88
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणत्रयमोचनतीर्थमाहात्म्यवर्णनं नाम सप्ताशीतितमो ऽध्यायः ॥
र्क्व् अध्याय 88
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं पार्थ कापिलं तीर्थम् आश्रयेत् ।
स्थापितं कपिलेनैव सर्वपातकनाशनम्
अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर ।
स्नापयेत्परया भक्त्या कपिलाक्षीरसर्पिषा
श्रीखण्डेन सुगन्धेन गुण्ठयेत महेश्वरम् ।
ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपसत्तम
ये ऽर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् ।
असिपत्त्रवनं घोरं यमचुल्ही सुदारुणा
दृश्यते नैव विद्वद्भिः कपिलेश्वरपूजनात् ।
स्नात्वा रेवाजले पुण्ये भोजयेद् ब्राह्मणाञ्छुभान्
गोप्रदानेन वस्त्रेण तिलदानेन भारत ।
छत्रशय्याप्रदानेन राजा भवति धार्मिकः
तीव्रतेजा विघोरश् च जीवत्पुत्रः प्रियंवदः ।
शत्रुवर्गो न तस्य स्यात् कदाचित् पाण्डुनन्दन
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0