भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 87

87.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीतितमो ऽध्यायः ॥
र्क्व् अध्याय 87
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपाल तीर्थं परमशोभनम् ।
स्थापितं मुनिसङ्घैर् यद्ब्रह्मवंशसमुद्भवैः

87.2

ऋणमोचनमित्याख्यं रेवातटसमाश्रितम् ।
षण्मासं मनुजो भक्त्या तर्पयन् पितृदेवताः

87.3

देवैः पितृमनुष्यैश्च ऋणमात्मकृतं च यत् ।
मुच्यते तत्क्षणान् मर्त्यः स्नातो वै नर्मदाजले

87.4

प्रत्यक्षं दुरितं तत्र दृश्यते फलरूपतः ।
तत्र तीर्थे तु यो राजन्नेकचित्तो जितेन्द्रियः

87.5

स्नात्वा दानं च वै दद्याद् अर्चयेद् गिरिजापतिम् ।
ऋणत्रयविनिर्मुक्तो नाके दीप्यति देववत्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc