रेवाखाण्ड (संशोधित पाठ) · अध्याय 89
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाशीतितमो ऽध्यायः ॥
र्क्व् अध्याय 89
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्
स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना ।
राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान् मणौ
समुत्क्षिप्ते तु तेनैव सपूतिरभवद्व्रणः ।
तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत
तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् ।
यस्तत्र मनुजो भक्त्या स्नायाद्भरतसत्तम
सर्वान्कामानवाप्नोति सम्पूज्य परमेश्वरम् ।
कृष्णाष्टम्यां चतुर्दश्यां सर्वकालं नराधिप ।
ये ऽर्चयन्ति सदा देवं ते न यान्ति यमालयम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0