रेवाखाण्ड (संशोधित पाठ) · अध्याय 86
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमनाथतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीतितमो ऽध्यायः ॥
र्क्व् अध्याय 86
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महाराज पिङ्गलावर्तम् उत्तमम् ।
सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे ।
हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः
युधिष्ठिर उवाच:
हव्यवाहेन भगवन्नीश्वरः स्थापितः कथम् ।
एतदाख्याहि मे सर्वं प्रसादाद् वक्तुम् अर्हसि
मार्कण्डेय उवाच:
शम्भुना रेतसा राजंस्तर्पितो हव्यवाहनः ।
प्राप्तसौख्येन रौद्रेण गौर्याक्रीडनचेतसा
हव्यवाहमुखे क्षिप्तं रुद्रेणामिततेजसा ।
रुद्रस्य रेतसा दग्धस् तीर्थयात्राकृतादरः
सागरांश्च नदीर्गत्वा क्रमाद्रेवां समागतः ।
चचार परया भक्त्या ध्यानमुग्रं हुताशनः
वायुभक्षः शतं साग्रं यावत्तेपे हुताशनः ।
तावत्तुष्टो महादेवो वरदो जातवेदसः ।
संनिधौ समुपेत्याथ वचनं चेदम् अब्रवीत्
ईश्वर उवाच:
वरं वृणीष्व हव्याश यस्ते मनसि वर्तते
वह्निर् उवाच:
नमस्ते सर्वलोकेश उग्रमूर्ते नमो ऽस्तु ते ।
रेतसा तव संदग्धः कुष्ठी जातो महेश्वर ।
कृपां कुरु महादेव मम रोगं विनाशय
ईश्वर उवाच:
हव्यवाह भवारोगो मत्प्रसादाच्च सत्वरम् ।
अत्र तीर्थे कृतस्नानः स्वरूपं प्रतिपत्स्यसे
इत्युक्त्वा च महादेवस्तत्रैवान्तरधीयत ।
अनन्तरं हव्यवाहः सस्नौ रेवाजले त्वरन्
तदैव रोगनिर्मुक्तो ऽभवद्दिव्यस्वरूपवान् ।
स्थापयामास देवेशं स वह्निः पिङ्गलेश्वरम्
नाम्ना संपूजयामास तुष्टाव स्तुतिभिर्मुदा ।
ततो जगाम देशं स्वं देवानां हव्यवाहनः
हव्यवाहेन भूपैवं स्थापितः पिङ्गलेश्वरः ।
जितक्रोधो हि यस्तत्र उपवासं समाचरेत्
अतिरान्त्रफलं तस्य अन्ते रुद्रत्वमाप्नुयात् ।
गुणान्विताय विप्राय कपिलां तत्र भारत
अलंकृत्य सवत्सां च शक्त्यालङ्कारभूषिताम् ।
यः प्रयच्छति राजेन्द्र स गच्छेत्परमां गतिम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0