रेवाखाण्ड (संशोधित पाठ) · अध्याय 85
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपितीर्थरामेश्वरलक्ष्मणेश्वरकुम्भेश्वरमाहात्म्यवर्णनं नाम चतुरशीतितमो ऽध्यायः ॥
र्क्व् अध्याय 85
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र नर्मदायाः पुरातनम् ।
ब्रह्महत्याहरं तीर्थं वाराणस्या समं हि तत्
युधिष्ठिर उवाच:
आश्चर्यं कथ्यतां ब्रह्मन्यद्वृत्तं नर्मदातटे ।
वाराणस्या समं कस्माद् एतत् कथय मे प्रभो
निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम ।
युष्मद्वाणीजलस्नातो निर्दुःखः सह बान्धवैः
श्रीमार्कण्डेय उवाच:
साधु साधु महाबाहो सोमवंशविभूषण ।
पृष्टो ऽस्मि दुर्लभं तीर्थं गुह्याद्गुह्यतरं परम्
आदौ पितामहस् तावत् समस्तजगतः प्रभुः ।
मनसा तस्य संजाता दशैव ऋषिपुंगवाः
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च
जज्ञे प्राचेतसं दक्षं महातेजाः प्रजापतिः ।
दक्षस्यापि तथा जाताः पञ्चाशद्दुहिताः किल
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
तथैव स महाभागः सप्तविंशतिमिन्दवे
रोहिणी नाम या तासामभीष्टा साभवद्विधोः ।
शेषासु करुणां कृत्वा शप्तो दक्षेण चन्द्रमाः
क्षयरोग्यभवच्चन्द्रो दक्षस्यायं प्रजापतेः ।
स च शापप्रभावेण निस्तेजाः शर्वरीपतिः
गतः पितामहं सोमो वेपमानो ऽमृतांशुमान् ।
पद्मयोने नमस्तुभ्यं वेदगर्भ नमो ऽस्तु ते ।
शरणं त्वां प्रसन्नो ऽस्मि पाहि मां कमलासन
ब्रह्मोवाच:
निस्तेजाः शर्वरीनाथ कलाहीनश्च दृश्यसे ।
उद्विग्नमानसस्तात संजातः केन हेतुना
सोम उवाच:
दक्षशापेन मे ब्रह्मन्निस्तेजस्त्वं जगत्पते ।
निर्हारश्चास्य शापस्य कथ्यतां मे पितामह
ब्रह्मोवाच:
सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा ।
ओङ्कारे ऽथ भृगुक्षेत्रे तथा चैवौर्वसंगमे
तत्र गच्छ क्षपानाथ यत्र रेवान्तरं तटम् ।
त्वरितो ऽसौ गतस्तत्र यत्र रेवौर्विसंगमः
काष्ठावस्थः स्थितः सोमो दध्यौ त्रिपुरवैरिणम् ।
यावद् वर्षशतं पूर्णं तावत् तुष्टो महेश्वरः
प्रत्यक्षः सोमराजस्य वृषासन उमापतिः ।
साष्टाङ्गं प्रणिपत्योच्चैर्जय शम्भो नमो ऽस्तु ते
जय शङ्कर पापहराय नमो जय ईश्वर ते जगदीश नमः ।
जय वासुकिभूषणधार नमो जय शूलकपालधराय नमः
जय अन्धकदेहविनाश नमो जय दानववृन्दवधाय नमः ।
जय निष्कलरूप सकलाय नमो जय काल कामदहाय नमः
जय मेचककण्ठधराय नमो जय सूक्ष्मनिरञ्जनशब्द नमः ।
जय आदिरनादिरनन्त नमो जय शङ्कर किंकरमीश भज
एवं स्तुतो महादेवः सोमराजेन पाण्डव ।
तुष्टस्तस्य नृपश्रेष्ठ शिवया शङ्करो ऽब्रवीत्
ईश्वर उवाच:
वरं प्रार्थय मे भद्र यत्ते मनसि वर्तते ।
साधु साधु महासत्त्व तुष्टो ऽहं तपसा तव
सोम उवाच:
दक्षशापेन दग्धो ऽहं क्षीणसत्त्वो महेश्वर ।
शापस्योपशमं देव कुरु शर्म मम प्रभो
ईश्वर उवाच:
तव भक्तिगृहीतो ऽहमुमया सह तोषितः ।
निष्पापः सोमनाथस्त्वं संजातस्तीर्थसेवनात्
इत्यूचे देवदेवेशः क्षणं ध्यात्वेन्दुना ततः ।
स्थापितं परमं लिङ्गं कामदं प्राणिनां भुवि ।
सर्वदुःखहरं तत् तु ब्रह्महत्याविनाशनम्
युधिष्ठिर उवाच:
सोमनाथप्रभावं मे संक्षेपात्कथय प्रभो ।
दुःखार्णवनिमग्नानां त्राता प्राप्तो द्विजोत्तम
श्रीमार्कण्डेय उवाच:
शृणु तीर्थप्रभावं ते संक्षेपात्कथयाम्य् अहम् ।
यद्वृत्तमुत्तरे कूले रेवाया उरिसंगमे
शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः ।
त्रिलोचनसुतः कण्वः स पापर्द्धिपरो ऽभवत्
वने नित्यं भ्रमन्सो ऽथ मृगयूथं ददर्श ह ।
मृगयूथं हतं तत् तु त्रिलोचनसुतेन च
मृगरूपी द्विजो मध्ये चरते निर्जने वने ।
स हतस्तेन सङ्गेन कण्वेन मुनिसत्तम
ब्रह्महत्यान्वितः कण्वो निस्तेजा व्यचरन्महीम् ।
व्यचरंश्चैव सम्प्राप्तो नर्मदाम् उरिसंगमे
किंशुकाशोकबहले जम्बीरपनसाकुले ।
कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते
चिञ्चिणीचम्पकोपेते ह्यगस्तितरुछादिते ।
प्रभूतभूतसंयुक्तं वनं सर्वत्र शोभितम्
चित्रकैर् मृगमार्जारैर् हिंस्रैः शम्बरशूकरैः ।
शशैर्गवयसंयुक्तैः शिखण्डिखरमण्डितम्
प्रविष्टस्तु वने कण्वस्तृषार्तः श्रमपीडितः ।
स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने
अर्चितः परया भक्त्या सोमनाथो युधिष्ठिर ।
पपौ सुविमलं तोयं सर्वपापक्षयंकरम्
फलानि च विचित्राणि चखाद सह किंकरैः ।
सुप्तः पादपच्छायायां श्रान्तो मृगवधेन च
तावत्तीर्थवरं विप्रः स्नानार्थं सङ्गमं गतः ।
मार्गगो ब्राह्मणो हर्षोद्युक्तस्तद्गतमानसः
अबला तमुवाचेदं तिष्ठ तिष्ठ द्विजोत्तम ।
त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर
तावद्वृक्षसमारूढां स्त्रियं रक्ताम्बरावृताम् ।
रक्तमाल्यां तदा बालां रक्तचन्दनचर्चिताम् ।
रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह
स्त्र्युवाच:
संदेशं श्रूयतां विप्र यदि गच्छसि सङ्गमे ।
मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय
एकाकिनी च ते भार्या तिष्ठते वनमध्यगा ।
इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभे
वृक्षच्छायान्वितः कण्वो ब्राह्मणेनावलोकितः ।
उवाच तं प्रति तदा वचनं ब्राह्मणोत्तमः
ब्राह्मण उवाच:
वनान्तरे मया दृष्टा बाला कमललोचना ।
रक्ताम्बरधरा तन्वी रक्तचन्दनचर्चिता
रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा ।
वृक्षारूढावदद्वाक्यं मद्भर्ता प्रेष्यतामिति
कण्व उवाच:
कस्मिन्स्थाने तु विप्रेन्द्र विद्यते मृगलोचना ।
कस्य सा केन कार्येण सर्वमेतद्वदाशु मे
ब्राह्मण उवाच:
सङ्गमाद् अर्धक्रोशे सा उद्यानान्ते हि विद्यते ।
वचनाद् ब्रह्मणस्यैषा न ज्ञाता पार्थिवेन तु
तदा स कण्वभूपालः स्वकं दूतं समादिशत् ।
कण्व उवाच:
गच्छ त्वं पृच्छतां तां क्वागता क्वच गमिष्यसि ।
प्रेषितस्त्वरितो दूतो गतो नारीसमीपतः
वृक्षस्थां ददृशो बालामुवाच नृपसत्तम ।
मन्नाथः पृच्छति त्वां तु कासि त्वं क्व गमिष्यसि
कन्योवाच:
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन् न पापानां शास्ता वैवस्वतो यमः
ब्रह्महत्या च संजाता मृगरूपधरद्विजात् ।
मया युक्तो ऽपि ते राजा मुक्तस्तीर्थप्रभावतः
अर्धक्रोशान्तरान् मध्ये ब्रह्महत्या न संविशेत् ।
सोमनाथप्रभावो ऽयं वाराणस्याः समः स्मृतः
गच्छ त्वं प्रेष्यतां राजा शीघ्रम् अत्र न संशयः ।
गतो भृत्यस्ततः शीघ्रं वेपमानः सुविह्वलः
समस्तं कथयामास यद्वृत्तं हि पुरातनम् ।
तस्य वाक्यादसौ राजा पतितो धरणीतले
भृत्य उवाच:
कस्मात् त्वं शोचसे नाथ पूर्वोपात्तं शुभाशुभम् ।
इत्याकर्ण्य वचस्तस्य राजा वचनम् अब्रवीत्
प्राणत्यागं करिष्यामि सोमनाथसमीपतः ।
शीघ्रमानीयतां वह्निरिन्धनानि बहूनि च
आनीतं तत्क्षणात्सर्वं भृत्यैस् तद्वशवर्तिभिः ।
स्नानं कृत्वा शुभे तोये सङ्गमे पापनाशने
अर्चितः परया भक्त्या सोमनाथो महीभृता ।
त्रिःप्रदक्षिणतः कृत्वा ज्वलन्तं जातवेदसम्
प्रविष्टः कण्वराजासौ हृदि ध्यात्वा जनार्दनम् ।
पीताम्बरधरं देवं जटामुकुटधारिणम्
श्रिया युक्तं सुपर्णस्थं शङ्खचक्रगदाधरम् ।
सुरारिसूदनं दध्यौ सुगतिर् मे भवत्विति
पपात पुष्पवृष्टिस्तु साधु साधु नृपात्मज ।
आश्चर्यमतुलं दृष्ट्वा निरीक्ष्य च परस्परम्
मृतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् ।
विमानस्थास् ततः सर्वे संजाताः पाण्डुनन्दन
निष्पापास्ते दिवं याताः सोमनाथप्रभावतः ।
ब्राह्मणे सङ्गमे तत्र ध्यायमाने वृषध्वजम्
श्रीमार्कण्डेय उवाच:
सोमनाथप्रभावो ऽयं शृणुष्वैकमना विधिम् ।
अष्टम्यां वा चतुर्दश्यां सर्वकालं रवेर्दिने
विशेषाच्छुक्लपक्षे चेत्सूर्यवारेण सप्तमी ।
उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम्
पञ्चामृतेन गव्येन स्नापयेत् परमेश्वरम् ।
श्रीखण्डेन ततो गुण्ठ्य पुष्पधूपादिकं ददेत्
घृतेन बोधयेद् दीपं नृत्यं गीतं च कारयेत् ।
सोमवारे तथाष्टम्यां प्रभाते पूजयेद् द्विजान्
जितक्रोधानात्मवतः परनिन्दाविवर्जितान् ।
सर्वाङ्गरुचिराञ्छस्तान् स्वदारपरिपालकान्
गायत्रीपाठमात्रांश्च विकर्मविरतान् सदा ।
पुनर्भूवृषलीशूद्री चरेयुर् यस्य मन्दिरे
दूरतो ऽसौ द्विजस्त्याज्य आत्मनः श्रेय इच्छता ।
हीनाङ्गान् अतिरिक्ताङ्गान् येषां पूर्वापरं न हि
व्रते श्राद्धे तथा दाने दूरतस्तान् विवर्जयेत् ।
आयसी तरुणी तुल्या द्विजाः स्वाध्यायवर्जिताः
आत्मानं सह याज्येन पातयन्ति न संशयः ।
शाल्मलीनावतुल्याः स्युः षट्कर्मनिरता द्विजाः
दातारं च तथात्मानं तारयन्ति तरन्ति च ।
श्राद्धं सोमेश्वरे पार्थ यः कुर्याद्गतमत्सरः
प्रेतास्तस्य हि सुप्रीता यावद् आभूतसम्प्लवम् ।
अन्नं वस्त्रं हिरण्यं च यो दद्याद् अग्रजन्मने
स याति शाङ्करे लोक इति मे सत्यभाषितम् ।
हयं यो यच्छते तत्र सम्पूर्णं तरुणं सितम्
रक्तं वा पीतवर्णं वा सर्वलक्षणसंयुतम् ।
कुङ्कुमेन विलिप्ताङ्गावग्रजन्महयावपि
स्रग्दामभूषितौ कार्यौ सितवस्त्रावगुण्ठितौ ।
अङ्घ्रिः प्रदीयतां स्कन्धे मदीये हयमारुह
आरूढे ब्राह्मणे ब्रूयाद् भास्करः प्रीयतामिति ।
स याति शांकरं लोकं सर्वपापविवर्जितः
उपरागे तु सोमस्य तीर्थं गत्वा जितेन्द्रियः ।
सत्यलोकाच् च्युतश्चापि राजा भवति धार्मिकः
तस्य वासः सदा राजन्न नश्यति कदाचन ।
दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी
जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः ।
सोपवासो जितक्रोधो धेनुं दद्याद्द्विजन्मने
सवत्सां क्षीरसंयुक्तां श्वेतवस्त्रावलोकिताम् ।
शबलां पीतवर्णां च धूम्रां वा नीलकर्बुराम्
कपिलां वा सवत्सां च घण्टाभरणभूषिताम् ।
रूप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर
श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी ।
शबला पीतवर्णा च दुःखघ्न्यौ संप्रकीर्तिते
कपिला नाशयेत् पापं सप्तजन्मसमुद्भवम् ।
सत्यलोकमवाप्नोति गोप्रदायी नरेश्वर
पक्षान्ते ऽथ व्यतीपाते वै धृतौ रविसंक्रमे ।
दिनक्षये गजच्छायां ग्रहणे भास्करस्य च
ये व्रजन्ति महात्मानः सङ्गमे सुरदुर्लभे ।
मृदावगुण्ठयित्वा तु चात्मानं सङ्गमे विशेत्
हृदयान्तर्जले जाप्या प्राणायामो ऽथवा नृप ।
गायत्री वैष्णवी चैव सौरी शैवी यदृच्छया ।
ते ऽपि पापैः प्रमुच्यन्त इत्येवं शङ्करो ऽब्रवीत्
जगतीं सोमनाथस्य यस्तु कुर्यात् प्रदक्षिणाम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ।
भ्रूणहा स्वर्णहर्ता च मुच्यन्ते नात्र संशयः
तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः ।
व्याधितो मुच्यते रोगी चारोगी सुखमाप्नुयात्
यत्ते संदह्यते चेतः शृणु तन्मे युधिष्ठिर ।
नैकापि नृप लोके ऽस्मिन् भ्रूणहत्या सुदुस्त्यजा
किमु षड्विंशतिं पार्थ प्राप याः क्षणदाकरः ।
सो ऽपि तीर्थमिदं प्राप्य तपस्तप्त्वा सुदुश्चरम्
विमुक्तः सर्वपापेभ्यः शीतरश्मिरभूत्सुखी ।
श्रूयते नृप पौराणी गाथा गीता महर्षिभिः
लिङ्गं प्रतिष्ठितं ह्येकं दशभ्रूणहनं भवेत् ।
अतो लिङ्गत्रयं सोमः स्थापयामास भारत
रेवौरिसंगमे ह्याद्यं द्वितीयं भृगुकच्छके ।
ततः सिद्धिं परां प्राप्य प्रभासे तु तृतीयकम्
इति ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।
धर्म्यं यशस्यमायुष्यं स्वर्ग्यं संशुद्धिकृन्नृणाम्
पुत्रार्थी लभते पुत्रान्निष्कामः स्वर्गमाप्नुयात् ।
मुच्यते सर्वपापेभ्यस् तीर्थं कृत्वा परं नृप
एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् ।
श्रुत्वा पुत्रमवाप्नोति स्नात्वा चाष्टौ न संशयः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0