भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 84

84.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हनूमन्तेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीतितमो ऽध्यायः ॥
र्क्व् अध्याय 84
श्रीमार्कण्डेय उवाच:
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
कैलासे पृच्छते भक्त्या षण्मुखाय शिवोदितम्

84.2

ईश्वर उवाच:
पूर्वं त्रेतायुगे स्कन्द हतो रामेण रावणः ।
चतुर्दश तदा कोट्यो निहता ब्रह्मरक्षसाम्

84.3

हतेषु तेषु वै तत्र रक्षणाय दिवौकसाम् ।
महानन्दस् तदा जातस्त्रिषु लोकेषु पुत्रक

84.4

ततः सीतां समासाद्य समं वानरपुंगवैः ।
रामोऽप्ययोध्याम् आयातो भरतेन कृतोत्सवः ।
तस्मै समर्पयामास स राज्यं लक्ष्मणाग्रजः

84.5

तस्मिन्प्रशासति ततो राज्यं निहतकण्टकम् ।
कृतकार्यो ऽथ हनुमान्कैलासम् अगात् पुरा

84.6

ततो नन्दी प्रतीहारो रुद्रांशम् अपि तं कपिम् ।
न च संगमयामास रुद्रेणाघौघहारिणा

84.7

तेन पृष्टस्तदा नन्दी किं मया पातकं कृतम् ।
येन रुद्रवपुः पुण्यं न पश्याम्यम्बिकान्वितम्

84.8

नन्द्युवाच:
त्वयावतरणं चक्रे कपीन्द्रामरहेतुना ।
तथापि हि कृतं पापम् उपभोगेन शाम्यति

84.9

हनुमान् उवाच:
किं मयाकारि तत्पापं नन्दिन्देवार्थकारिणा ।
राक्षसाश्च हता दुष्टा विप्रयज्ञाङ्गघातिनः

84.10

ततस् तदालापकुतूहली हरो निजांशभाजं कपिम् उग्रतेजसम् ।
उवाच द्वारान्तरदत्तदृष्टिः पुरःस्थितं प्रेक्ष्य कपीश्वरं पुनः

84.11

ईश्वर उवाच:
गङ्गा गया कपे रेवा यमुना च सरस्वती ।
सर्वपापहरा नद्यस्तासु स्नानं समाचर

84.12

नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
सोमनाथसमीपस्थं तत्र त्वं गच्छ वानर

84.13

तत्र स्नात्वा महापापं गमिष्यति ममाज्ञया ।
उत्पत्य वेगाद्धनुमाञ्छ्रीरेवादक्षिणे तटे

84.14

जगाम सुमहानादस्तपश्चक्रे सुदुष्करम् ।
तस्य वै तप्यमानस्य रक्षोवधकृतं तमः

84.15

विलीनं पार्थ कालेन कियतेशप्रसादतः ।
ततो देवैः समं देवस्तत्तीर्थमगमद्धरः

84.16

कपिम् आलिङ्गयामास वरं तस्मै प्रदत्तवान् ।
अद्यप्रभृति ते तीर्थं भविष्यति न संशयः

84.17

कपितीर्थं ततो जातं तस्थौ तत्र स्वयं हरः ।
हनूमन्तेश्वरो नाम्ना सर्वहत्याहरस्तदा

84.18

तत्र तीर्थे तु यः स्नात्वा भक्त्या लिङ्गं प्रपूजयेत् ।
सर्वपापानि नश्यन्ति हरस्य वचनं यथा

84.19

तत्रास्थीनि विलीयन्ते पिण्डदाने ऽक्षया गतिः ।
यत् किंचिद् दीयते तत्र तद्धि कोटिगुणं भवेत्

84.20

हनुमान् अप्य् अयोध्यायां रामं द्रष्टुमथागमत् ।
चकार कुशलप्रश्नं स्वस्वरूपं न्यवेदयत्

84.21

श्रीराम उवाच:
कुर्वतो देवकार्यं ते मम कार्यं च कुर्वतः ।
ततो ऽहम् अपि पापीयांस्तपस् तप्स्याम्यसंशयम्

84.22

तत्रैव दक्षिणे कूले रेवायाः पापहारिणि ।
चतुर्विंशतिवर्षाणि तपस्तेपे ऽथ राघवः

84.23

ज्योतिष्मतीपुरीसंस्थः श्रीरेवास्नानमाचरन् ।
तस्य शुश्रूषणं चक्रे लक्ष्मणो ऽपि तदाज्ञया

84.24

स्थापयामासतुर्लिङ्गे तौ तदा रामलक्ष्मणौ ।
प्रभावात् सत्यतपसो रेवातीरे महामती ।
निष्पापतां तदा वीरौ जग्मतू रामलक्ष्मणौ

84.25

ततस्तदा देवपुरोगमो हरो गतो हि वै पुण्यमुनीश्वरैः सह ।
आगत्य तीर्थं च वरं ददौ तदा निजां कलां तत्र विमुच्य तीर्थे

84.26

मुनिभिः सर्वतीर्थानां क्षिप्तं कुम्भोदकं भुवि ।
एकस्थं लिङ्गनामाथ कलाकुम्भस्तथाभवत्

84.27

कुम्भेश्वर इति ख्यातस्तदा देवगणार्चितः ।
रामो ऽपि पूजयामास तल्लिङ्गं देवसेविवतम्

84.28

ततो वरं ददौ देवो रामकीर्त्यभिवृद्धये ।
चतुर्विंशतिमे वर्षे रामो निष्पापतां गतः

84.29

यदा कन्यागतः पङ्गुर्गुरुणा सहितो भवेत् ।
तदेव देवयात्रेयम् इति देवा जगुर्मुदा

84.30

यथा गोदावरीतीर्थे सर्वतीर्थफलं भवेत् ।
तथात्र रेवास्नानेन लिङ्गानां दर्शनैर्न्ःणाम्

84.31

करिष्यन्त्य् अत्र ये श्राद्धं पित्ःणां नर्मदातटे ।
कुम्भेश्वरसमीपस्थास् तत्फलं शृणु षण्मुख

84.32

यावन्तो रोमकूपाः स्युः शरीरे सर्वदेहिनाम् ।
तावद् वर्षप्रमाणेन पित्ःणाम् अक्षया गतिः

84.33

पृथिव्यां देवताः सर्वाः सर्वतीर्थानि यानि तु ।
लभन्ते तत्फलं मर्त्या लिङ्गत्रयविलोकनात्

84.34

अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ।
सरोगो मुच्यते रोगान्नात्र कार्या विचारणा

84.35

सिंहराशिं गते जीवे यत् स्याद् गोदावरीफलम् ।
तद् द्वादशगुणं स्कन्द कुम्भेश्वरसमीपतः

84.36

ये जानन्ति न पश्यन्ति कुम्भशम्भुमुमापतिम् ।
नर्मदादक्षिणे कूले तेषां जन्म निरर्थकम्

84.37

यथा गोदावरीयात्रा कर्तव्या मुनिशासनात् ।
चतुर्विंशतिमे वर्षे तथेयं देवभाषितम्

84.38

यावच्चन्द्रश्च सूर्यश्च यावद् वै दिवि तारकः ।
तावत् तद् अक्षयं दानं रेवाकुम्भेश्वरान्तिके

84.39

महादानानि देयानि तत्र लौकैर् विचक्षणैः ।
गोदानमत्र शंसन्ति सौवर्णं राजतं तथा

84.40

यस्याः स्मरणमात्रेण नश्यते पापसञ्चयः ।
स्नानेन किं पुनः स्कन्द ब्रह्महत्यां व्यपोहति

84.41

तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्याद् युधिष्ठिर ।
एकोत्तरं कुलशतम् उद्धरेच्छिवशासनात्

84.42

यानि कानि च तीर्थानि चासमुद्रसरांसि च ।
शिवलिङ्गार्चनस्येह कलां नार्हन्ति षोडशीम्

84.43

एवं देवा वरं दत्त्वा हरीश्वरपुरोगमाः ।
स्वस्थानम् अगमन् पूर्वं मुक्त्वा तन्नाम चोत्तमम्

84.44

तीर्थस्यास्य वरं दत्त्वा स रामो लक्ष्मणाग्रजः ।
अयोध्यां प्रविवेशासौ निष्पापो नर्मदाजलात्

84.45

सौवर्णीं च ततः कृत्वा सीतां यज्ञं चकार सः ।
अनुमन्त्र्य मुनींल्लोकान्देवताश्च निजं कुलम्

84.46

पुरा त्रेतायुगे जातं तत्तीर्थं स्कन्दनामकम् ।
नियमेन ततो लोकैः कर्तव्यं लिङ्गदर्शनम्

84.47

तावत् पापानि देहेषु महापातकजान्यपि ।
यावन्न प्रेक्षते जन्तुस्तत्तीर्थं देवसेवितम्

84.48

ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् ।
ज्योतिष्मतीपुरीसंस्थं ये द्रक्ष्यन्ति हरं परम्

84.49

तस्मान्मोहं परित्यज्य जनैर् गन्तव्यमादरात् ।
तीर्थाशेषफलावाप्त्यै तीर्थं कुम्भेश्वराह्वयम्

84.50

मार्कण्डेय उवाच:
श्रुत्वेति शम्भुवचसा स षडाननो ऽथ नत्वा पितुः पदयुगाम्बुजमादरेण ।
सम्प्राप्य दक्षिणतटं गिरिशस्रवन्त्याः कीशाग्र्यरामकलशाख्यशिवान् ददर्श

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc