भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 78

78.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भीमेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 78
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र नरदेश्वरमुत्तमम् ।
तीर्थानां परमं तीर्थं निर्मितं नारदेन तु

78.2

युधिष्ठिर उवाच:
नारदेन मुनिश्रेष्ठ कस्मात्तीर्थं विनिर्मितम् ।
एतदाख्याहि मे सर्वं प्रसन्नो यदि सत्तम

78.3

श्रीमार्कण्डेय उवाच:
परमेष्ठिसुतः पार्थ नारदो मुनिसत्तमः ।
रेवायाश्चोत्तरे कूले तपस्तेन पुरा कृतम्

78.4

नवनाडीनिरोधेन काष्ठावत्यां गतेन च ।
तोषितः पशुभर्ता वै नारदेन युधिष्ठिर

78.5

ईश्वर उवाच:
तुष्टो ऽहं तव विप्रेन्द्र योगिनाथ अयोनिज ।
वरं प्रार्थय मे वत्स यस्ते मनसि वर्तते

78.6

नारद उवाच:
त्वत्प्रसादेन मे शम्भो योगश्चैव प्रसिध्यतु ।
अचला ते भवेद्भक्तिः सर्वकालं ममैव तु

78.7

स्वेच्छाचारी भवे देव वेदवेदाङ्गपारगः ।
त्रिकालज्ञो जगन्नाथ गीतज्ञो ऽहं सदा भवे

78.8

दिने दिने यथा युद्धं देवदानवमानुषैः ।
पाताले मर्त्यलोके वा स्वर्गे वापि महेश्वर

78.9

पश्येयं त्वत्प्रसादेन भवन्तं पार्वतीं तथा ।
तीर्थं लोकेषु विख्यातं सर्वपापक्षयंकरम्

78.10

ईश्वर उवाच:
एवं नारद सर्वं तु भविष्यति न संशयः ।
चिन्तितं मत्प्रसादेन सिध्यते नात्र संशयः

78.11

स्वेच्छाचारो भवेर्वत्स स्वर्गे पातालगोचरे ।
मर्त्ये वा भ्रम वै योगिन्न केनापि निवार्यसे

78.12

सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः ।
ताना एकोनपञ्चाशत्प्रसादान्मे तव ध्रुवम्

78.13

मम प्रियंकरं दिव्यं नृत्यगीतं भविष्यति ।
कलिं च पश्यसे नित्यं देवदानवकिन्नरैः

78.14

त्वत्तीर्थं भूतले पुण्यं मत्प्रसादाद् भविष्यति ।
वेदवेदाङ्गतत्त्वज्ञो ह्यशेषज्ञानकोविदः ।
एकस्त्वमसि निःसङ्गो मत्प्रसादेन नारद

78.15

इत्युक्त्वान्तर्दधे देवो नारदस्तत्र शूलिनम् ।
स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम्

78.16

पृथिव्यामुत्तमं तीर्थं निर्मितं नारदेन तु ।
तत्र तीर्थे नृपश्रेष्ठ यो गच्छेद्विजितेन्द्रियः

78.17

मासि भाद्रपदे पार्थ कृष्णपक्षे चतुर्दशी ।
उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम्

78.18

छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणे ।
शस्त्रेण तु हता ये वै तेषां श्राद्धं प्रदापयेत् ।
ते यान्ति परमं लोकं पिण्डदानप्रभावतः

78.19

कपिला तत्र दातव्या पित्ःन् उद्दिश्य भारत ।
इत्युच्चार्य द्विजे देया यान्तु ते परमां गतिम्

78.20

अस्य श्राद्धस्य भावेन ब्राह्मणस्य प्रसादतः ।
नर्मदातोयभावेन न्यायार्जितधनस्य च ।
तेषां चैव प्रभावेन प्रेता यान्तु परां गतिम्

78.21

इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः ।
हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत्

78.22

दीपं भक्त्या प्रदातव्यं नृत्यं गीतं च कारयेत् ।
अवाप्तं तेन वै सर्वं यः करोतीश्वरालये

78.23

स याति रुद्रसांनिध्यम् इति रुद्रः स्वयं जगौ ।
विद्यादानेन चैकेन अक्षयां गतिम् आप्नुयात्

78.24

धूर्वहास्तत्र दातव्या भूमिः सस्यवती नृप ।
चित्रभानुं शुभैर्मन्त्रैः प्रीणयेत् तत्र भक्तितः

78.25

आज्येन सुप्रभूतेन होमद्रव्येण भारत ।
ये यजन्ति सदा भक्त्या त्रिकालं नृत्यमेव च

78.26

तीर्थे नारदनामाख्ये रेवायाश्चोत्तरे तटे ।
चित्रभानुमुखा देवाः सर्वदेवमय ऋषिः

78.27

ऋषिणा प्रीणिताः सर्वे तस्मात् प्रीत्यो हुताशनः ।
पूजिते हव्यवाहे तु दारिद्र्यं नैव जायते

78.28

धनेन विपुला प्रीतिर् जायते प्रतिजन्मनि ।
कुलीनाश्च सुवेषाश्च सर्वकालं धनेन तु

78.29

प्लवो नदीनां पतिरङ्गनानां राजा च सद्वृत्तरतः प्रजानाम् ।
धनं नराणामृतवस्तरूणां गतं गतं यौवनमानयन्ति

78.30

धनदत्वं धनेशेन तस्मिंस्तीर्थे ह्युपार्जितम् ।
यमेन च यमत्वं हि इन्द्रत्वं चैव वज्रिणा

78.31

अन्यैरपि महीपालैः पार्थिवत्वमुपार्जितम् ।
नारदेश्वरमाहात्म्याद् ध्रुवो निश्चलतां गतः

78.32

सर्वतीर्थवरं तीर्थं निर्मितं नारदेन तु ।
पृथिव्यां सागरान्तायां रेवायाश्चोत्तरे तटे ।
तद्वरं सर्वतीर्थानां महापातकनाशनम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc