भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 79

79.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टसप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 79
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम् ।
दधिस्कन्दं मधुस्कन्दं सर्वपापक्षयंकरम्

79.2

दधिस्कन्दे नरः स्नात्वा यस्तु दद्याद् द्विजे दधि ।
उपतिष्ठेत्ततस्तस्य सप्तजन्मनि भारत

79.3

न व्याधिर्न जरा तस्य न शोको नैव मत्सरः ।
दशचन्द्रशतं यावज्जायते विमले कुले

79.4

मधुस्कन्दे ऽपि मधुना मिश्रितान्यस्तिलान्ददेत् ।
नासौ वैवस्वतं देवं पश्येद् वै जन्मसप्ततिम्

79.5

मधुना सह सम्मिश्रं पिण्डं यस्तु प्रदापयेत् ।
तस्य पौत्रप्रपौत्रेभ्यो दारिद्र्यं नैव जायते

79.6

दधिभिः सह संमिश्रं पिण्डं यस्तु प्रदापयेत् ।
तस्मिंस्तीर्थे नरः स्नात्वा विधिवद्दक्षिणामुखः

79.7

पिता पितामहश्चैव तथैव प्रपितामहः ।
द्वादशाब्दानि तुष्यन्ति नात्र कार्या विचारणा

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc